तु नैतदिच्छन्ति । यदि ह्यच्परः सादिर प्यषोपदेशः स्यात्, तदा
भाष्योक्तम् 'अज्दन्त्यपराः सादयः षोपदेशा' इति षोपदेशल-
क्षणमव्यापकं स्यात् । अत एव 'बुधयुधनशजनेङ्प्रुद्रुस्रु-
भ्यो णेः' (१-३-८६) इत्यत्र 'दु द्रु गतौ' इति पठित्वापि 'स्रु
गतौ' इत्येव न्यासे पठ्यते; न तु 'सु स्रु गतौ' इति । अपरे पुनः
'शुद्धि?] स्रु गतौ इति पठन्ति । तथा च 'शु दु द्रु स्रु गतौ'
इति शाकटायनः । क्षीरस्वामी तु शु श्रु गतौ' इति पठित्वा
शवति शृङ्गं प्ररोहः, आशृणोति चैत्रायेति चोदाहत्य 'श्रु श्रवण'
इत्यस्य स्थाने 'स्रु गतौ' इत्यपि पपाठ । 'शुसिचिमीनां दीर्घश्च'
इति चोणादौ क्रनि शूरशब्दो व्युत्पाद्यते । 'शूरः शवतेर्गतिक-
र्मणः' इति च नैरुक्ताः । न चान्यः शुर्दृश्यते । उणादिवृत्तौ तु
सौत्रोऽयं धातुः ॥
स्थैर्ये ध्रवति गत्यां तु स्थैर्ये च ध्रुवतीति शे।।
'ध्रु स्थैर्ये' । 'शु, दु, द्रु, स्रु गतौ । ध्रु स्थैर्ये च' इति शाकटायनः । 'ध्रु गतिस्थैर्ययोः॥
दुनोति दूयते तापे दवतीति गतौ पदम् ॥ २२ ॥
'टुदु उपतापे' । स्वादिः । 'दूङ् परितापे' । दिवादिः । 'दु द्रु गतौ ॥
अव्यक्तशब्दे कवते कुवते त्वार्तशब्दने ।
कौतीति शब्दमात्रे स्याद्
१. दुधातुमात्रे प्रदर्शनीये अधिकवचनेन धातुपाठस्थपाठाकारविशेषप्रदर्शन- संरम्भमाविष्कृत्यापीत्यर्थः. २. यथेष पाठोऽभविष्यद् , अवश्यमदर्शयिष्यत
'दु द्रु गता’वितिवत् .