पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पुरुषकारोपेतम् ।

ऽन्येषामप्यमुं प्रबन्धमनुबध्नतामलसमनसामप्याद्यपद्यप्रभावेनैव यथा स्यादित्येवमर्थं मङ्गलाचरणमग्रे निब[१]न्धनस्य निवेश[२]यति-- सच्चित्सुखेति । तत्र च ब्रह्मतत्त्वप्रतिसन्धानस्य समस्तेषु मङ्गलेषु मूर्धाभिषिक्तत्वाच्छब्दस्य च शब्दतत्त्वविद्भिर्ब्रह्मत्वेनाभ्युपगमात् तस्यैव चात्रापि भ[३]वत्याद्यात्मना प्रतिपाद्यत्वात् स्वस्य च ब्रह्मनिष्ठत्वाद् ब्रह्मतत्त्वविषयमेव मङ्गलमौचित्यातिरेकादाचरितं मन्तव्यम् । मङ्गलाचरणस्य पुनर्यथोक्तफलसाधनत्वं

[४]'मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥'

इत्यादिस्मृतेः शिष्टा[५]चाराच्च द्रष्टव्यम् । अविनिपातश्चात्राभिमतात् फलादप्रच्युतिरेव । अपिचात्र 'सिद्धे[६] शब्दार्थसम्बन्ध' इत्यत्र तत्रभवतः पतञ्जलेर्भाष्यं 'माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते; वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि च । अध्येतारश्च सिद्धार्था यथा स्युरिति' इति । 'वृद्धिरादैज्' (१-१-१) इत्यत्र च 'माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते; वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि च । अध्येतारश्च वृद्धियुक्ता यथा


  1. ग्रन्थस्य ।
  2. कर्तुर्गम्यत्वादनुपादानम्.
  3. भूधात्वादिरूपेण.
  4. अयं श्लोको मनुस्मृतौ चतुर्थाध्यायेऽस्ति. 'अभिलषितायुर्धनादिसिद्धिर्मङ्गलं, तदर्थ आचारः' (मङ्गलाचार) इति मेधातिथिः.
  5. 'न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति' इतिवद् मङ्गलाचारः शोभनं शीलं, तच्चाद्रोहवृत्तिरुपकारवृत्तिर्वा, न तु ग्रन्थादाविष्टवस्तुस्तोत्रमिति यद्युच्येत, तदाप्याह-शिष्टाचाराच्चेति.
  6. इदं च प्रथमं वार्तिकं कात्यायनस्य.