पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दैवं

स्युरिति' इति । 'भूवादि' (१-३-१) सूत्रे च 'माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते; वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि च । अध्येतारश्च मङ्गलयुक्ता यथा स्युरिति' इति । अत्र च मङ्गलप्रयोजनो माङ्गलिकः । तत्र च यथाभाष्यं यथाचारं च मङ्गलादित्वमेव तत्तत्कार्याणामावश्यकम् । शेष[१]योः पुनर्नावश्यकता । अविगुणमङ्गलानामभिमतफलभङ्गमुपलभामहे; तच्चै[२]वं प्रबलतरदुरितप्रतिबन्धादेवेत्यनुसन्धेयम् । इत्यास्तां नास्तिकवादावतारावसरः ।

 अत्र च परमार्थस्वप्रकाशभूतसुखमात्रस्वरसे[३] यस्मिन् वस्तुनि शुक्तिशकल इव रूप्यं मिथ्यैव जगत् प्रकाशते; न तु प्रतीच इव चैतन्यमन्यद्रूपमस्यास्ति, तस्मिन् प्रत्यग्भूते परमात्मनि 'परं ब्रह्माहमस्मि' इत्यनिशं मम चित्तवृत्तिर्भूयादित्यक्षरार्थः । यदेवंविधपरमात्माख्यमात्मनः स्वतःस्वरूपमविद्यातिमिरदुष्टदृष्टेरन्यथान्यथावभासते तत् तथैव मम तत्त्वविद्यासिद्धाञ्जनवशादनिशं प्रकाशतामिति यावत् । तत्रापि प्रत्यक्परमात्मापरपर्यायस्य ब्रह्मणः स्वरूपतटस्थलक्षणोपवर्णनद्वारा परमपुरुषार्थरूपोपदर्शनेन चित्तवृत्तेः स्व[४] यंवरार्हविषयावेदनपराणि परमात्मनीत्येवंपर्यन्तानि पदानि वेदितव्यानि । तत्र च विश्वाधिष्ठानत्वं[५] तटस्थलक्षणं


  1. मङ्गलमध्यत्वमङ्गलान्तत्वयोः.
  2. मङ्गलाचरणस्य प्रामाणिकत्वावधारणे.
  3. 'स्वरूपे' इति गपुस्तके पाठः.
  4. यतः परमपुरुषार्थलाभप्रत्याशा. तादृशं विषयमनन्यप्रेरणया चित्तवृत्तिरन्विष्य वृणुते कान्तमिव कन्यकेत्यत उक्तं स्वयंवरार्हविषयेति.
  5. 'त्वलक्षणम्' इति घपुस्तके पाठः.