पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
दैवं

दंशदर्शनयोर्दासेर्दाने दासति दासते ।
वस्यति स्तम्भने वस्ते छादने वसयेद्वसेत् ॥ १८७ ॥

निवासे वासयेत् स्नेहे वासयत्युपसेवने ।
(वसेन्निवासे वसयेच्च वस्ते त्वाच्छादने स्तम्भन एव वस्येत्
निवासयत्याच्छदने निवासेरासेवने वासयतीति वासेः ॥)
मोक्षणे जस्यतीति स्याण्णावत्रार्थे तु जंसयेत् ।। १८८ ॥

हिंसाताडनयोर्धात्वोरुदितोर्जासयेदिति ।
तस्यत्युपक्षयार्थे णावलङ्कारे तु तंसयेत् ॥ १८९ ॥

ध्रस्नाति ध्रासयत्युञ्छे पदे श्नि णिचि च ध्रसेः ।
लासयेच्छिल्पयोगेऽर्थे श्लेषणे क्रीडने लसेत् ॥ १९० ॥

भाषणे त्रंसयेत् त्रंसेर्धारणे त्रासयेण्णिचि ।
त्रसति त्रस्यतीत्येवमुद्वेगार्थे तु वा श्यनि ॥ १९१ ॥

णौ पिंसयति भाषार्थे गत्यां तु शपि पेसति ।
गतिशासनयोः कंस्ते कसतीति गतौ शपि ॥ १९२ ।।

शब्दे शपि रसेत् स्नेहास्वादयो रसयेद्रसेः ।
प्रपूरणे दोग्धि दुग्धे दोहतीत्यर्दने दुहेः ॥ १९३ ॥

ण्यन्तस्य ग्रहणे गृहेर्गृहयते तत्रानदन्ताद् गृहे-
र्भूवादेः शपि गर्हते श्नि तु पदे गृह्णात्यगृह्णीत च ।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेद्
भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते ॥ १९४ ॥

रहयेद्रहति त्यागे गतौ रंहेस्तु रंहति ।।
श्ने तृणेढीति हिंसायां तृहतीत्यूदितस्तृहेः ॥ १९५ ॥

महयेन्महतीत्येते पूजायां णौ शपि क्रमात् ।
चहयेच्चहतीत्येते चहेः स्तां परिकल्कने ॥ १९६ ॥

मर्षणे सहते यौ तु साहयेत् सहति द्वयम् ।
श्यनि सह्यति शक्यर्थे पूजनेऽर्हति चार्हयेत् ॥ १९७ ॥