पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवम् ।

हिंसासंक्लेशयोर्मन्थेन्मथेन्मथ्नाति लोडने ।
कुन्था ति कुन्थेत् संक्लेशे पूतीभावे तु कुथ्यति ॥ ९८ ॥

प्रथते प्राथयत्येतत् प्रख्याने द्वितयं प्रथेः ।
पृथेः पर्थयतीत्येतत् प्रक्षेपे णौ पदं विदुः ॥ ९९ ॥

क्रथत्ययौ यौ हिंसायां क्राथयेत् क्रथते क्रथेत् ।
पुथ्येत् पुन्थति हिंसार्थे भाषार्थे पोथयेदिति ॥ १०० ॥

दौर्बल्ये श्रथयेत् प्रयत्नविषये स्याच्छ्राथयेन्मोक्षणे
यौ तु श्राथयति श्रथत्यपि च वा णौ श्रन्थयेच्छ्रन्थति ।
सन्दर्भे श्नि विमोचनार्थविषये श्रश्नात्यथ श्रन्थते
शैथिल्येऽथ पथेर्गतौ पथति णौ पन्थेर्गतौ पन्थयेत् ॥ १०१ ॥

क्लिन्दते क्लिन्दतीत्येवमिदितः परिदेवने ।
क्लिद्यतीत्यार्द्रभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत् ॥ १०२ ॥

आस्वादनेऽर्थे स्वदते स्वादयोदिति शब्णिचोः ।
अर्दयेदर्दतेऽर्देद्यौ हिंसनेऽर्दति याचने ॥ १०३ ॥

मेदते मेद्यतीत्येते स्नेहने मिन्दयेण्णिचि ।
ऋदितो मेदते मेदेन्मेधाहिंसनयोर्द्वयोः ॥ १०४ ॥

आहाने रोदने क्रन्देः कन्देः क्रन्दति कन्दति ।
वैक्लब्ये तु तयोर्धात्वोः क्रन्दते कन्दते मितोः ॥ १०५ ॥

मित्त्वार्थपाठसामर्थ्यात् तयोर्दीर्घविकल्पनम् ।
भवेच्चिण्णमुलोस्तस्मादक्रान्द्यक्रन्दि सिध्यतः ॥ १०६ ॥

गात्रप्रक्षरणे स्विद्येत् स्वेदते स्नेहमोकयोः ।
क्ष्वेदत्यव्यक्तशब्दार्थे क्ष्विद्यति स्नेहमोक्षयोः ॥ १०७ ॥

ज्वलादेश्च तुदादेश्च सीदेद्विशरणादिके ।
पद्यतेरर्थ आसीदेदासादयति चाङि यौ ॥ १०८ ॥

व्यक्तवाचि वदेद्वा णौ वादयेद्वदते वदेत् ।
सन्देशे श्यनि गत्यर्थे पद्यते पदयेत णौ ॥ १०९ ॥