णौ देवशब्दे गदयेद् व्यक्तवाचि गदेच्छपि ।
नदत्यव्यक्तशब्दार्थे भाषार्थे नादयेदिति ॥ ११० ॥
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दते विन्दतीत्येवं लाभे वेदयते णिचि ॥ १११ ।।
दैन्येऽर्थे खिद्यते खिन्ते परिघाते तु खिन्दति ।
स्तुत्यादौ मन्दते हर्षे माद्येन्मादयते णिचि ॥ ११२ ॥
यौ वा णावपवारणे छदत इत्येकं द्वितीयं छदे-
दन्यच्छादयति च्छदेदिति पुनः स्यादूर्जनेऽर्थे मितः ।
यत्तु छन्दयतीति णौ नुमि पदं तत् संवृताविप्यते
संसर्गे णिचि मोदयेदिति भवेद्धर्षे पुनर्मोदते ॥ ११३ ॥
प्रत्येकं निदिनेद्योः स्तां नेदते नेदतीत्युभे ।
कुत्सायां सन्निकर्षे वा कुत्सामात्रे तु निन्दति ॥ ११४ ॥
छृदी सन्दीपने वा णौ छर्दयेच्छर्दतीत्युभे ।
छृन्ते छृणत्तीति पदे दीप्तिदेवनयोः श्नभि || ११५ ।।
सिधेः सिध्यति संराद्धौ सेधतीत्युदितो गतौ ।
शास्त्रमाङ्गल्ययो रूपमूदितम्तदिटा भिदा ॥ ११६ ॥
शुन्धयेच्छुन्धते शुन्धेद्यौ वा णौ शौचकर्मणि ।
शुद्धौ शुन्धति भूवादेः शुधेः शौचे तु शुध्यति ॥ ११ ॥
शर्धते शब्दकुत्सायामुन्दे शर्धति शर्धते ।
हिक्कादौ शर्धयत्यस्य शृधेः प्रसहने णिचि ॥ ११८ ॥
बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम् ।
बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि ॥ ११९ ॥
बध्नाति बन्धने बन्धेर्बाधयोदिति संयमे ।
यत्तु बीभत्सते तत् स्याद्वैरूप्येऽर्थे बधेः सनि ॥ १२० ।।
(बध्नन् बीभत्सने बन्धे बाधयेदिति संयमे ।)
गुधेर्गुध्नाति रोपेऽर्थे गुध्येत् तु परिवेष्टने ।
रुन्धे रुणद्ध्यावरणे कामेऽनावनुरुध्यते ॥ १२१ ॥