पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
दैवं

क्षण!) इत्येव शाकटायनः [१]

  [२] वेस्यति स्तम्भने वस्ते छादने वसयेद् वसेत् ॥ १८७ ॥
 निवासे वासयेत् स्नेहे वासयत्युपसेवने ।

[ [३] वसेन्निवासे वसयेच्च वस्ते
त्वाच्छादने स्तम्भन एव वस्येत् ।
निवासयत्याच्छदने निवासे-
रासेवने वासयतीति वासेः ॥]

  [४] मोक्षणे जस्यतीति स्याण्णावत्रार्थे तु जंसयेत् ॥ १८८ ॥
 हिंसाताडनयोर्धात्वोरुदितोर्जासयेदिति ।
 [५] तस्यत्युपक्षयार्थे णावलङ्कारे तु तंसयेत् ॥ १८९ ॥
 [६]ध्रस्नाति ध्रासयत्युञ्छे पदे श्नि णिचि च ध्रसेः ।

  [७]यमुकारः । उद्रसां चकारौध्र(सा?)स्नादित्युदाहृतेः ।


  1. इत ऊर्ध्वं 'यमुकारः' इत्यतः प्राक् पत्रमेकं नोपलभ्यते पुरुषकारे । अतस्तावतो ग्रन्थस्य मूलं यथाप्रमाणं विव्रियते । 'तमु उपक्षये' । 'दसु च' । दिवादिः । 'दसि दर्शनदंशनयोः' । चितादिः । 'दासृ दाने' । स्वरितेत् .
  2. 'वसु स्तम्भे' । दिवादिः । 'अपरे वकारादिमाहुः' इति माधवः । 'वस आच्छादने' । अदादिः । 'वस निवासे' । कथादिः । तत्त्वं च 'बहुलमेतन्निदर्शनम्' इत्यस्यादन्तधातुनिदर्शनार्थत्वादनुमेयमिति भट्टोजिदीक्षिताः । 'वस निवासे' । भूवादिः । 'वस स्नेहच्छेदापहरणेषु' । चुरादिः । 'वास उपसेवायाम्' कथादिः
  3. ख पुस्तकेऽयं श्लोकोऽधिको दृश्यते, किन्तु एतद् ‘वस्यति स्तम्भने' इत्यादिपूर्वश्लोकस्य पाठान्तरं न भवितुमर्हति, स्नेहार्थस्य वसधातोरत्रावचनाद् विरूपस्य निवासधातोर्वचनाच्च.
  4. 'जसु मोक्षणे' । दिवादिः । 'जसि मोक्षणे' । 'जसु हिंसायाम्' । 'जसु ताडने' । चुरादी.
  5. 'तसु उपक्षये' । दिवादिः । तसि भूष अलङ्करणे' । चुरादिः.
  6. 'उध्रस उञ्छे' । क्र्यादिक्षुरादिश्च.
  7. यकारात् प्राक् 'धात्ववयवोऽ' इति स्यात्