पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७
पुरुषकारोपेतम् ।

अस्रांसिष्ट स्रंसते चााद्युतादे-
स्ते च द्वे स्तामस्रसच्च द्युतादेः ।
ध्वंसत्यादेः साहचर्याद् द्युतादे-
र्नीगित्याहुर्दत्वमन्यस्य चापि ॥ १८५½ ॥

  'सन्सु प्रमादे' । क्षीरस्वामी तु सृन्भु इति भकारान्तं प्रकरणानुरोधेन पठित्वा 'सन्स्वित्येक' इत्याह । मैत्रेयरक्षितस्तु-- 'संयोगान्तसाधर्म्येण सकारान्तोऽप्यत्र निर्दिश्यते' इति । 'स्रंसु ध्वंसु भ्रंसु अवस्रंसने । अस्रसत् । 'द्युद्भ्यो लुङि' (१-३-९१) इति विभषा परस्मैपदम् । 'पुषादिद्युतादीति (३-१-५५) अङ् । 'अनिदितामिति (६-४-२४) नलोपः । ([१]यश्च नीवञ्चुस्रनुसुध्वंसुभ्रंस्वनडुहां द इति दत्वं तु ध्वंसुसाहचर्यानभ्युपगमनादाद्युदात्तश्चेत्याह ?) अत्र मैत्रेयरक्षितः-'द्युतादावप्ययं पठ्यते । तस्यैव ध्वंसुभ्रंसुसाहचर्यान्नीगित्याहुः । दत्वे पुनरसाहचर्यमिच्छन्ति 'उखास्नद्' इति ।

 दसयेन्मोक्षणे दस्येत् क्षये दंसयते णिचि ॥ १८६ ॥
 दंशदर्शनयोर्दासेर्दाने दासति दासते ।

 'जसि मोक्षणे' । 'दसि च । रक्षण इत्येव तु दृश्यते ।

तत्रापि दसि चेत्येतत् क्वचिदेव कोशे। तथा च जसु ([२]कुडुपल-


  1. इदं. कुण्डलरेखान्तर्गतं शब्दजालं 'यश्च नीक् नीग्वञ्चुलंसुध्वंसुभ्रंसु (७-४ ८४) इति, स ध्वंसुभ्रंसुसाहचर्याद् द्युतादेर्भवति; वसुस्रंसुध्वंस्वनडुहां दः (८-२-७२) इति दत्वं तु ध्वंसुसाहचर्यानभ्युपगमाद् अद्युतादेश्चेत्याहुः' इत्यर्थक किमप्युत्तरार्धव्याख्यानपरं वाक्यं स्यादिति प्रतिभाति.
  2. 'कुडुम्ब रक्षण' इति स्यात् .