पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
पुरुषकारोपेतम् ।

  'तृप प्रीणने' । तच्च 'पीयूषस्येह तृप्नुतम्' इत्यादिदर्शनात् तृप्तिरेव । केचित् पुनः स्वादौ तृपिं न पठन्ति । तथा च 'क्षुभ्नादि' (८-४-३९) सूत्रे न्यासकृता 'व्यत्ययो बहुलम्' (३-१-८५) इतिच्छान्दसोऽत्र श्नुरुक्तः । अत्र च 'क्षुभ्नादिषु च' इति णत्वाभावः । तेषु च तृप्नोतिशब्दस्यैव पाठात् तसादिषु णत्वं भवत्येव । अतृप्नोत् तृप्नोत्वित्यत्र तु 'एकदेशविकृतमनन्यवद् भवति' इति न्यायान्न भवति । 'तृप तृप्तौ' । *तुदादिश्चायम् । सन्दीपन इति तु युजादौ क्षीरस्वामी । प्रीणन इति बहवः ॥

 संघाते डेपयेतेति क्षेपे डिपति डिप्यति ।
 डेपयेदिति चत्वारि णिचि शे श्यनि णौ डिपेः ॥ १३४ ॥

  'डिप सङ्घाते' । चितादिः । 'डिप क्षेपे' ॥

 कल्पते शपि सामर्थ्ये कल्पयत्यवकल्कने ।
 अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति ॥ १३५ ॥

  'कृपू सामर्थ्ये' । 'कृपो रो लः' (८-२-१८) इति लः। 'कृपेश्च' इति 'कृपेस्तादर्थ्य' इति वा णिच् । ते (*) '*भावयत्यवकल्कने' इत्यत्र दर्शिते । 'दार कृप श्रथ दौर्बल्ये' ॥

 क्षम्पेः क्षम्पयति क्षान्त्यां प्रेरणे क्षपयेदिति ।

  'क्षपि क्षान्त्याम्' । 'क्षप प्रेरणे' । भीमसेनेन कथादिष्वपठितोऽप्ययं 'बहुलमेतन्निदर्शनम्' इत्युदाहरणत्वेन धातुवृत्तौ पठ्यते ॥


१. न केवलमयं युजादिः, किन्तु तुदादिरपीत्यर्थः.  २. इदं तृतीयश्लोके.


  • 'च' इति पाठः स्यात् .