पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
दैवं

 उपालम्भे शपेर्वाक्यात् तङि स्याच्छपते पदम् ॥१३२॥

  'शप आक्रोशे' । दिवादिर्भूवादिश्च । वाक्यादिति । 'शप उपालम्भने' इति वार्तिकेन । उपालम्भन इत्येव तु प्रायः पठन्ति । तदात्राप्युपालम्भ इति पाठः । तत्र वाचा शरीरस्पर्शनमुपालम्भनम् । तच्चैतज्जयादित्यमतम् । एतच्च 'त्वत्पादौ स्पृशामि नैतन्मया कृतमित्येवंविधः शपथविशेषः' इति *व्याचख्युः । सुधाकरश्चाह-'वाचा शरीरस्पर्शने = तव शरीरं स्पृष्ट्वा शपे इति यल्लोकप्रसिद्धं तत्र शपेस्तङ्' इति । कैयटस्तु 'उपलम्भनं प्रकाशनम्' इति । भागवृत्तिकारः पुनः प्राह - 'शपेरुपालम्भने प्रकाशने कथने वर्तमानादात्मनेपदं भवति । देवदत्ताय शपते । देवदत्तं यत्किञ्चित्कथयतीत्यर्थः । वाचा शरीरस्पर्शनमुपालम्भनमित्यदः कस्यचित् काव्यम्' इति । तत्र च श्लाघह्नुङ्स्थेति (१-४-३४) सम्प्रदानत्वाच्चतुर्थी । शाकटायनस्त्वाह-'उपलम्भनं प्रकाशनं देवदत्ताय शपते । देवदत्तं प्रकाशयति । एवम्भूतोऽसाविति देवदत्तमाचष्ट इत्यर्थः । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनम् । देवदत्ताय शपत इति । प्रोषिते देवदत्ते तस्य भावाभावयोरुपलब्धव्ययोः कंचिदासेव*ते' इति । चान्द्रभोजकौमारास्तु 'शपः शपथे' इत्येवमाहुः । तदेतेष्वपि पक्षेषु लक्ष्यवशादेव समस्तस्य व्यवस्थास्थेया ॥

 तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
 तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत् ॥ १३३ ॥


१. हरदत्तमिश्राः. २. एवञ्च देवदत्तभावाभावान्यतरविषयं स्वाभिप्रायमाविष्करोतीत्यर्थ उदाहरणस्य फलितः.