पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
पुरुषकारोपेतम् ।

त्यर्थः । एतच्च 'अनन्तरस्य विधिर्वा' इति न्यायान्न वनोतेः। धनपालस्तु तमेव प्रस्तुत्याह- 'वनुं घटादिषु पठन्ति द्रमिडाः । तेषां मित्संज्ञा । वनयति । आर्यास्तु विभाषामित्त्वमिच्छन्ति । तेषां वानयति वनयति' इति ॥

 स्तम्भे मानयते ज्ञाने मन्यते मनुते पदम् ॥ १२५॥
 पूजायां मानयेन्मानेद् यौ मीमांसेत तङ्सनोः ।

  'मन स्तम्भे' । चितादिः । 'मन ज्ञाने' । दिवादिः । 'मनु अवबोधने' । तनादिः । 'मान पूजायाम्' । भूवादौ त्वयमनुदात्तेत् । 'मान्बधे'ति (३-१-६) सनि 'अवयवे कृतं लिङ्गम्' इति न्यायेन तङ् । संश्चास्मात् जिज्ञासार्थादित्या3हुः । विचारणार्थादिति तु भोजीया मीमांसकाश्च । 'मीमांसा स्याद्विचारणा' इति च नैघण्टुकाः। एवं च जिज्ञासाशब्देनापि वा विचारणैव लक्ष्यताम् ॥

 ध्वनयेदित्यदन्तस्य ध्वनेः शब्दे ध्वनेच्छपि ॥ १२६ ॥

  घटादौ चायं कैश्चित् पठ्यते । तथा च 'ध्वन शब्द इत्येके' इति मैत्रेयरक्षितः । क्षीरस्वामिधनपालावप्यत्रैवानुकूलौ । 'दलिवलिस्खलिरणिध्वनिक्षपित्रपयश्च' इति च भोजदेवः । एते च मित्संज्ञा इत्यर्थः॥

 शब्दे च देवशब्दे च स्तनति स्तनयेत् क्रमात् ।

  'ष्टन वन शब्दे । 'स्तन गदी देवशब्दे' । नचास्यापि


१. न वनोतेः =न तानादिकस्य, किन्तु घटादौ प्राक्पठितस्यैवेत्यर्थः । घटादिपठितश्चोदित्करणसामर्थ्यादन्यो धातुः, न तानादिकानुवाद इत्ययमर्थः 'तदेव (वनेदित्येव) पदम्' इति वदता देवेनैव सूचित इत्यभिप्रायः. २. वनोतिमेव. ३. तया च काशिका – 'मानेर्जिज्ञासायाम्' इति. ४. एवञ्च = बहुसम्मत्या मीमांसाशब्दस्य विचारणावाचकत्वे च.