पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
दैवं

दन्त्यपरसादित्वात् षोपदेशत्वम् । स्म्याद्येकाच्साहचर्यादनेकाचां नैतदित्याहुः । व्यक्तं चैतत् क्षीरस्वामिमैत्रेयरक्षितवृत्त्योः ॥

 श्रद्धोपकरणार्थस्य तनेस्तनति तानयेत् ॥ १२७॥
 दैर्घ्यार्थस्योपसर्गात्तु विस्तारे तनुतेऽतनोत् ।

  'तनु श्रद्धोपकरणयोः' । ('धनपालशाकटायनौ?) 'उपसर्गाच्च दैर्घ्ये' । उपसर्गात्तनेर्दैर्घ्येऽर्थे णिज् भवतीत्यर्थः । आतनति आतानयेत् । 'तनु विस्तारे' ॥

 दाने सनोति सनुते सम्भक्तौ तु सनेदिति ॥ १२८॥

  'षणु दाने' । तनादिः । 'वन षण संभक्तौ' ॥

 णौ गोपयति भाषार्थे निन्दायां से जुगुप्सते ।
 गोपायेद्रक्षणे त्वाये व्याकुलत्वे तु गुप्यति ॥ १२९॥

  गुप भाषार्थः । 'गुप गोपने' । अनुदात्तेत् । गोपनकुत्सनयोरिति मैत्रेयराक्षितः । निन्दायामिति । अत्र 'गुप्तिज्किद्भ्यः सन्' (३-१-५) इत्यत्र जयादित्यः- 'निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते' इति । 'गुपू रक्षणे' । 'गुपूधूप' (३-१-२८) इत्यादिनायः । 'गुप व्याकुलत्वे' । दिवादिः ॥

 धूपायतीति सन्तापे भाषार्थे धूपयेदिति ।

  'धूप सन्तापे' । धूप भाषार्थः ॥

 क्षिप्यति प्रेरणे शे तु क्षिपति क्षिपते पदे ॥ १३०॥

  'क्षिप प्रेरणे' । अत्र भूवादिसूत्रे सुधाकरः - "संपृचादि' (३-२-१४२) सूत्रे पारायणिकैरनुक्तोऽपि क्षिपिर्दैवादिको जया-


१. एषां गुपादिषु यथासङ्ख्यं सम्बन्धः.

+ अतः प्राक् 'चन श्रद्धोपहननयोरिति' एतावद् गलितमिति प्रतिभाति.