पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्माद्ग्रहः पुरम्पश्येत्पादवृद्ध्या यथाक्रमात् । भ्रातृमानौ मुतामासौ सुहृद्वन्धे च मन्मथम् ॥ ५६ ॥ भानुः शशीभृगुजींवः सौम्यो भौमः शनैश्वरः । नियं सिद्धवला एते विलोमादुत्तरोत्तरम् ।। ५७ ॥ ये वक्रगतयःस्निग्धा जिवरा विमलोज्वलाः । ते चेष्टा बलिनो नाम होराविद्भिः प्रकाशिताः ॥ ५८ ॥ उत्तरायणगौ सूर्यशशाङ्को वलिनौ मतौ । दक्षिणायणगाश्चान्ये चेष्टा वलमिदं भवेत् ॥ ५९ ॥ स्वोच्चरित्रकोणभवनांशगतःशुभैश्च दृष्टः सुहृद्भवनगः स्थितिशक्तियुक्तः । स्त्रीक्षेत्रगौ शशिसितापरे ग्रहाश्च पुराशिगाः स्थितिवलमवलाः भवन्ति ॥ ६० ॥ माकेन्द्रगौ जीवबुधकुजाक याम्याश्रयौ पश्चिमगश्चकोणः । शशाङ्कशुक्राबुदगाश्रयौ च स्यातां परं दिग्वीलनौ क्रमेण ६१ अहनि गुरुसितार्काः शक्तिमन्तो निशायां शशधरकुजसौराः सर्व्वदा चन्द्रपुवः | शुभगगनचराः स्युः शुक्लपक्षे बलाढ्या: बहुलमुपगताश्च क्रूरसंज्ञाः बलाढ्याः ॥ ६२ ॥ स्वकीयाव्दे स्वमासेच स्वचक्रेच स्ववासरे । स्वहोरायाश्च सर्व्वेपि ग्रहाःकालवलोत्तराः ॥ ६३ ॥ श्रेष्ठं चेष्टावलं तब स्थानदिक्कालेसम्भवम् । क्रमेण पादहीनः स्याद्वलम्बलनिरूपणे ॥ ६४ ॥ इति सामान्यादेशविधिर्नाम एकादशोऽध्यायः ॥ Oeso AN १ स्वस्मानुग्रहाः | २ सुतामाती । ३ सम्भवः ।