पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याधिदुर्भिक्षशस्त्रार्थस्तस्यां दिशि जनो भवेत् ॥ २ ॥ र वावस्तमिते यत्र देशे ग्रहपरम्परात् । दृश्यते तत्र शत्रूणां वत्सरेण नृपोऽन्यथा ॥ ३ ॥ पद्मोत्पलयवादीनां चित्राणामेकनालकम् । सम्भवः फलपुष्पाणां यमलत्वञ्च भीतिदम् ॥ ४ ॥ परयोनिषु गच्छन्तो मैथुनं देशनाशनम् । अन्यत्र 'विषयोत्पत्तिर्नृणाञ्चाजातिमैथुनम् ॥ ५ ॥ सर्वे दुर्भिक्षकतारः स्वजातिपिशितासनाः । सर्पमूषिक मार्जारमथुरोमविवर्जिताः ॥ ६ ॥ ग्रांमारण्यचराः ये च ये दिवा यामिनीचराः । ते ते व्यसयिताः दृष्टाः दधतो देशशून्यताम् ॥ ७ ॥ गृहतोरणचैसेषु द्वारेषु च भयप्रदाः । पक्षिणां सन्निपातश्च मधुवल्मीकदर्शनम् ॥ ८ ॥ एकत्रानेकदेवानां कुमफलदर्शनम् । अतिवृद्धिञ्च सस्यानां परचक्रागमं वदेत् ॥ ९ ॥ तिलानां मर्द्दनातैलमतैलत्वञ्च वा यदा । अन्नस्य विरसत्वञ्च तदापि सुमहद्भयम् ॥ १० ॥ प्राहकालं विनान्यत्र समये सप्तवासरम् । प्रवन्धेन महादृष्टिः प्रधानमरणं वदेव ॥ ११ ॥ यदि छाया न दृश्यन्ते विमलेपि विवस्वति । पल्लीपतो वा दृश्यन्ते भवेत्तस्मिन्नुपद्रवः ॥ १२ ॥ कुक्कुटाः क्षणदारम्भे हेमन्तादौ च कोकिलाः । रुदन्तो देशनाशाय श्श्येनाश्च प्रतिचक्रगाः ॥ १३ ॥ १ एकनालताम् | २ वेपर |