पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८ ) अम्भोजन्म समस्तवस्तुवनिताः सेनाधिपाः वाजिनः सर्व्वाः स्वौषधशालयश्चमधुरद्रव्याणितारापतेः ॥ १ ॥ चन्द्रस्य चारस्तद्वर्गे नक्षत्रविषयेषु च । पच्यतेमासमात्रेण पस्मासाभ्यन्तरे च वा ॥ २ ॥ यदि कुमुदमृणालहारगौर- स्थितिनियमाव क्षयमेति वर्धते वा । अधिकृतगतिमण्डलांशुयोगी भवाते नृणां विजयाय शीतरश्मिः || ३ ॥ इति चन्द्रचरितं नाम तृतीयोध्यायः । : 00 चतुर्थोध्यायः । -***- अथ भौमस्य चरितं समासेन विभाव्यते । फलराशिर्धनं तस्य धीररत्नममा भवेत् ॥ १ ॥ युगाब्दे धनलिप्तानां चाटुकालोपि भाजक: ध्रुवोच्चं कुमुदं विद्याद् भौमस्य घटिकादिकम् ॥ २ ॥ तां हित्वा मध्यमांतस्य रविवच्छेपमाचरेत् । ध्रुवज्ञौ विकलाभिस्तु भुजाफलमुपानयेत् ॥ ३ ॥ तदिहार्धीकृतं गोलवशादेतस्य मध्यमे । योजयेच्छोधयेद्वासौ ध्रुवा प्रथमस्फुटम् ॥ ४ ॥ तञ्चलोच्चात् समुधृय विद्याद्वोलपदं तथा । विधाय पूर्व्ववच्छेषमोजपादफलम्पुनः ॥ ५ ॥ इहाद्यन्ते पदे नियमाद्यन्तज्याभिरानयेत् । मध्ययोः पादयोश्राथ मध्यमज्याभिरानयेत् ॥ ६ ॥.