पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ८ ] प्रायः प्रयोजनं भविष्यति तथाकर्तुमर्हतीति देवनागराक्षरैर्मुद्रयितुम् एकेन मन्मित्रमहाशयेन निवेदितम् । तस्मात् तद्वचनं समाकर्ण्य बहूनां स्वदे- शीयानां परदेशीयानामपि प्रयोजनलाभे सार्थकताञ्च समभिचिन्त्य वाराणसी नामके नगरे चौखम्भासंस्कृतपुस्तकालय कार्याध्यक्षाय श्रीमते हरिदास गुप्तमहाशयाय दत्वा देवनागराक्षरैस्तन्मुद्रापितवान् | अलं पचवितेन । गुरुभ्यो नमः | शिवमस्तु ॥ श्री शीलस्कन्धस्थविरस्य || लङ्कायां शैलबिम्बारामे १६२४ शाके संवत्सरे ||