पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२० ) यस्य तस्य गृहं शुभैः समलङ्कृतम् । नरो वा लभते नारी नारी वा लभते पतिम् ॥ ३० ॥ काकं गृद्धं कपि श्येनं गोधां वा सूकरं तथा । स्वप्नान्ते यदि यः पश्येव्यसनं तस्य निर्दिशेत् ॥ ३१ ॥ खर्व्वतोच्चतलारोहः प्रशस्तः स्त्रप्नवेदिभिः । । अन्यत्र ल्यववाल्मीकमहिपोष्टखरादितः ॥ ३२ ॥ यद्यत्श्वेतन्तु वर्णेन पूजितं सर्व्वमेव तत् । तक्रकर्षासभस्मास्थि भक्तं तत्र विवर्जयेत् ॥ ३३ ॥ कृष्णवर्णन्तु यद्रव्यं गर्हितं सर्व्वमेव तत् । अन्यत्र पर्व्वतान्भूमेः करिणःसलिलालयाद ॥ ३४ ॥ रक्तवर्णन्तु यद्रव्यं तत्सर्व्वे नःमशस्यते । अन्यत्र शोणितान्मांसात् प्रवालात्पद्मचन्दनात् ।। ३५ ।। आद्ये वर्षाद्वत्सराद्वा द्वितीये यामे पाको वर्षपादातृतीये मासात्पाकः शवेरी पश्चिमांशे सद्यःपाको गोविसर्गेषु दृष्टः ।। ३६ ।। दृष्ट्वा स्वप्नं शोभनं नैव सुप्याव पश्चादृष्टो यः स पापं विधत्ते । शस्तं ब्रूयाद्यज्ञसाधुद्विजेभ्यः तेत्वाशीभिः पूजयेद्युक्तदुग्धैः ।। ३७ ॥ भूयो वा स्वपनं न चास्य कथनं गङ्गाभिषेको जपः शान्तिःस्वस्ययनं निसेवन विधिःप्रातर्गवाश्वत्थयोः । विमाणाञ्च तिलानपानकुसुमैः पूजा यथाशक्तितः पुण्यं दैवतकीर्तनञ्च कथितं दुःस्वप्नविध्वसनम् ॥ ३८ ॥ इतिस्वप्नादेशोनामाष्टादशोऽध्यायः । १ भूयोमास्वमान्तवास्य |