पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रजःशकटाज्जीवी कुत्सितात्मजदारवान् ॥ ४८ ।। विहङ्गःखचतुर्थस्थैस्तत्र दूतः कलिः प्रियः । लग्नपञ्चमधर्मस्थैः ः शृङ्गाटकमतः सुखी ॥ ४९ ॥ शृङ्गाटकविरोधेन हलस्तत्र कशोवलः । सर्व्वकेन्द्रगतः सर्वैः पद्मस्तत्र धनी भवेत् ॥ ५० ॥ वापीकेन्द्रेतरस्थैश्च सुखहीनो भवेन्नरः । विलग्नादिचतुःस्थैश्च यूपोऽस्मिन् दानतत्परः ॥ ५१ ॥ चतुर्थादिचतुःस्थैश्च चरस्तत्र च हिंस्रकः । सप्तमादिचतुःस्थैश्च शक्तिस्तत्र धनी नरः ॥ ५२ ॥ दशमादिचतुःस्थैश्च दण्डस्तत्र प्रियोज्झितः । लग्नादिसप्तमैनौका तत्र कीर्त्तिः सुखोत्तरः ॥ ५३ ॥ मित्रादि सप्तगैः कूटस्तस्मिन्ननृतभाषणः | अस्तादि सप्तगैश्छत्र मित्रस्वजनवत्सलः ॥ ५४ ॥ कर्म्मादिसप्तगैश्चापस्तत्र मध्यमुखी पटुः । कण्टकेतरसप्तस्थै रर्द्धचन्द्रः सुरूपवान् ॥ ५५ ॥ लग्नादेकान्तरस्थैश्च चक्रं तत्र नृपाञ्चितः । अर्थादेकान्तरस्थैश्च समुद्रस्तत्र भोगवान् ।। ५६ ।। एवमाकृतिजा योगाः सर्व्वे स्त्रार्जितसम्पदः । यथा यथाग्रहैः सर्वैः सप्तस्थानसमाश्रयैः ॥ ५७ ॥ वीणायोगस्तत्रो जातः सङ्गीतकुशलः पटुः । क्रमादन्येपि षट्योगाः 'वीणालक्षणवर्जिताः ॥ ५८ ।। दामःपाशश्च केदारः शुलं युग्मञ्च गोलकः । पापमियश्च दुश्शीलः कृषिकृद् घातकस्तथा ॥ ५९ ॥ दारिद्रो दुःखितश्चेति क्रमात्तेषु फलोदयः । १ प्रवीकेन्द्रेतुरस्यैश्च ॥ २ स्वरः || ३ वीणा लक्षण हानिनांः ||