तत्तत्प्रेम्णा यदि निजसुतौ साहनिष्यन्निगूढं
किं चैतद्वयस्थियुगलमतोऽप्रापयिष्यद्भवांस्तत् ॥ २८ ॥
अद्य त्वं तनय तथा कुरुष्व तूर्णं सद्यो यद्रुचिरतरास्थिनी निगीर्य ।
प्राप्नोषि प्रवरमते धराधिपत्यं वित्तं च प्रतिदिनमुच्चकैर्यथैव ॥ २९॥
अन्यत्किंचित्तदपि न हि तद्विद्यते नात्र मन्त्रः
पुत्रैतच्चेत्सपदि बत संपत्स्यते ते स्वभाग्यैः ।
किं भूयिष्ठैः सततविफलायासदैः कार्यभारै-
स्तस्मादत्रैव शुभदमहाकर्मणि प्रेरयैताम् ॥ ३० ॥
उक्त्वा चैवं सपदि विरतायां तु तस्यां जरत्यां
स्फीतोत्कण्ठातिविविधमहाभोज्यसंपूर्णभाण्डा ।
रन्तुं तस्यान्तिकमुरुमुदा सा ययौ मेरभक्ता
सालंकारा रुचिरतरसंकल्पिताकल्पशोभा ॥ ३१ ॥
तामायान्ती सपदि स वणिग्वीक्ष्य सोत्कण्ठचित्तां
चेटीस्कन्धार्पितवरमहाभोज्यभाण्डां सहर्षाम् ।
कोपाटोपं विगतहसितं धारितादत्र मौनं
त्यक्तालापं परिहृतगुणं सावमानं चकार ॥ ३२ ।।
आलोक्यैवंविधमुपगता कामिनं तं प्रदध्यौ
धिङ्मां भाग्यैः सततपरिहीनामुदारावसादाम् ।
दीनाराणां त्रितयशतदां प्रत्यहं तां विहंगी
हत्वा यः सेवित इह बत प्रत्युतासौ समन्युः ॥ ३३ ॥
ध्यात्वैवं तं सविनयमसावाचचक्षे सदुःखा
केनैवं त्वं प्रकुपित इवालोक्यसे प्राणनाथ ।
जानाम्यत्र प्रियतम विचार्यापि हेतुं न किंचि-
त्तन्मा मिथ्या मयि घनरुषा वक्रवक्त्रं कुरुष्व ॥ ३४ ॥
जानीषे किंचिदपि खलु चेद्रोषलेशं मम त्वं
यद्भूयास्त्वं किमिह तु करोष्युच्चकैश्चावहित्थाम् ।