पृष्ठम्:देलरामाकथासारः.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
काव्यमाला।


स ततः प्रभृत्यभवदत्र सुखी सुकुलीनसाधुविबुधैर्गुणिभिः ।
सह धर्मशासनकथाविबुधा धरणीपतिर्विरचयन्सततम् ॥ ३१ ॥
विहगीप्रसादपरिलब्धमहाद्रविणेन सा विपुलदासजनान् ।
समजिग्रहन्नरपतेर्दयिता निजमन्दिरे विविधकर्मकृते ॥ ३२ ॥
अपि केवलं स्वयमसौ नितरां सह तेन सार्थपतिना सततम् ।
मणिभिर्धनैर्विदधती प्रवरैर्व्यवहारमास्त सुखितात्र पुरे ॥ ३३ ॥
सततं तदीयसदनागमना परिजातसंस्तववशेन तु सा ।
गतयन्त्रणा विविधनर्महृता वणिजा समं रतिमचीकमत ॥ ३४ ॥
स्वगृहात्सदैव घनभोज्यसुरादिकमेतदीयसदनं सधनम् ।
उपनीय तेन वणिजैव समं ह्यघसत्पपौ भृशमरंस्त च सा ॥ ३५ ॥
प्रतिवासरं प्रचुररागहृता समभूत्तथैव किल सार्थपतौ ।
स्वधनेन रुच्यतममस्य कृते स्वयमेव भोज्यमपचत्तु यथा ॥ ३६ ॥
 तं भर्तारमपि स्वकीयतनयौ तौ राजचिहाङ्कितौ
 सर्वस्वं मनुते स्म नैव च तदा सा मेरभक्ता तथा ।
 रागग्रस्तमतिर्यथैव वणिजं तं दुष्कुलीनं शठं
 स्त्रीणां दुश्चरितं न जातुचिदहो पापावहं शाम्यति ॥ ३७ ॥

इति देलरामाकथासारे वित्तप्राप्यनन्तरं वणिजा सह राजपत्नीसंगमो नाम

तृतीयः सर्गः।

चतुर्थः सर्गः ।

ज्ञानतीक्ष्णधिषणा बभूव तत्कालमस्य वणिजः स्वमन्दिरे ।
वृद्धयोषिदपि काचिदुच्चकैस्तकृपापरमना हि शाकिनी ॥ १ ॥
भोज्यभाण्डनिचयं सदा समादाय तत्र जरती विलोक्य सा ।
तां गतागतकरीं दिवानिशं सार्थवाहसदने विसिस्मिये ॥ २ ॥
एकदा समुपसृत्य साब्रवीत्सार्थवाहमथ वृद्धकामिनी ।
पुत्र सेयमिह संततं किमागच्छति प्रचुरभाण्डधारिणी ॥ ३ ॥
एतदागमनहेतुमत्र मे ब्रूहि पुत्र मम तथ्यमेव तत् ।
नैव गोपयितुमर्हसि ध्रुवं त्वं मया तनयवद्धि मन्यसे ॥ ४ ॥