पृष्ठम्:देलरामाकथासारः.pdf/१६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
३ सर्गः ।]
देलरामाकथासारः।


साप्यशेषमथ तत्परिगृह्य स्फीतहर्षभरपूरित चित्ता।
आययौ निजगृहं नृपपत्नी व्यापदन्तसमयं प्रविदन्ती ॥ १९ ॥
गूढमेव तदुपार्जितवित्तं सा निधाय विजने नृपजाया ।
कस्यचिन्न समभाषत नैवादर्शयच्च कृतसंवृतिरुच्चैः ॥ २० ॥
सा परेऽह्नि च समेत्य विहङ्गीपञ्जरान्तिकमुपात्तघनास्था ।
अद्वितीयमपरं च तदण्डं पश्यति स्म गुरुदीप्ति सुदीप्तम् ॥ २१ ॥
तं मणिं च परिगृह्य सहर्षाकृष्य मञ्जुलसुपञ्जरगर्भात् ।
तस्य नैगमवरस्य समीपं सा पणान्तरमथैत्य जगाम ॥ २२ ॥
तत्र तस्य तु यथा प्रथमस्मिन्वासरे ननु तथैव तदह्नि ।
अण्डमेकमपरं च ततो विक्रीय वित्तमनयन्निजधाम ॥ २३ ॥
अथ सा तृतीयदिवसेऽपि तथा परिलब्धरत्नकृतविक्रयतः ।
समुपात्तवित्तनिचयेन तदा बहुशो जहर्ष सुखमाप भृशम् ॥ २४ ॥
इति संतताप्तगुरुरत्नचया विहगीप्रसादवशतो ननु सा ।
सह तेन सार्थपतिना व्यधित व्यवहारमत्र न परेण समम् ॥ २५॥
अथ संभृतप्रवरचित्तचया स्वपतिं कदाचिदवदद्दयया ।
सततं कुटुम्बभरणाय विभो नितरां प्रताम्यसि कुवृत्तिवशात् ॥ २६ ॥
निजशिल्पकर्मवशतो द्रविणं मम विद्यतेऽद्य ननु किंचिदिह ।
परिगृह्यते तदत एव मया सदनप्रयासकरदासजनः ॥ २७ ॥
ननु सर्वथा स्वपतिरेव सदा परिरक्ष्यते वरकुलाङ्गनया ।
तदितः परं भव सुखी सुचिरं त्यज काष्ठकष्टकृतवृत्तिमिमाम् ॥ २८ ॥
करवै कुटुम्बभरणं तु कथंचिदपि स्वयं विविधयत्नशतैः ।
न सहे त्वदीयवपुषः सततं पृथुखेदमुत्तमगुणस्य विभो ॥ २९ ।।
इति भारतीं प्रियहितां नृपतिः स निशम्य तामथ निजां दयिताम् ।
प्रशशंस जातधनहर्षभरो विरराम चेन्धनचयाहरणात् ॥३०॥

१. प्रथमे च' इति पाठः कल्पनीयः, प्रथमशब्दस्य सर्वनामसंज्ञकत्वाभावात्स्मिन्ना- देशाप्रवृत्तेः।