गच्छन्स मार्गे विशिखावलीभिर्निपातयन्प्राणिगणान्धरित्र्याम् ।
पार्ष्णिप्रहारातिसकोपवाजिवेगेन दूरं कटकाज्जगाम ॥ २३ ॥
प्रधाव्यमानप्रवराश्ववेगादेकं महागहरमाससाद ।
तत्रालुलोके वरवर्णशोभामेकां मृगीं निर्भयगामिनीं सः ॥ २४ ॥
तामीक्ष्य तत्र नृपतिर्निजचापदण्डा-
द्धन्तुं निशातविशिखं विचकर्ष सद्यः ।
सा व्याजहार हरिणी तु मनुष्यवाचा
त्वेकत्र रुद्धगतिरुद्गतस्मयं तम् ॥ २५॥
राजंस्त्वदर्थमधुना हि समागताह-
माकृष्य बाणधनुषी इह संहरातः ।
किंचिद्वदामि सुमते क्षणमात्रमेव
यत्सावधानमनसा शृणु तत्समग्रम् ॥ २६ ॥
दुष्कर्मणार्जितविपत्तव भूपतेऽस्ति
या सर्वसद्विभववित्तविनाशकर्त्री ।
एतर्हि तर्हि यदि वाञ्छसि तत्समेति
त्वां साधुनैव सहसा तु मदीयवाचा ॥ २७ ॥
किं तु त्वमिच्छसि तु चेत्परिणामकाले
तत्सांप्रतं भज मदीयगिरा खराज्यम् ।
ब्रूह्यद्य हृद्द्तयथेष्टनिजाभिलाषं
त्वत्कारणात्रिदिवतोऽहमिहावतीर्णा ॥ २८ ॥
श्रुत्वेति तद्विरमसौ पृथुजातदुःखो
दोलाधिरूढहृदयोऽथ समभ्यधात्ताम् ।
जायामुपैमि ननु यावदहं क्षणेन
पृष्ट्वाम्ब तावदिह मद्दयया भव त्वम् ॥ २९ ॥
उक्ते तथेति स तया खपुरं प्रतस्थे
मार्गेऽथ संमिलितसैन्यभटानुयातः ।