पृष्ठम्:देलरामाकथासारः.pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।


वक्रोक्तिरासील्लटभाङ्गनासु नैष्ठुर्यमेतत्कुचमण्डलेषु ।
गर्हाप्यभूद्दुष्कृतकार्य एव नित्यं नराणां सुकृताश्रयाणाम् ॥ १० ॥•
याच्ञाभवत्कामिजनस्य बालवराङ्गनालिङ्गनचुम्बनेषु ।
अधोगतिर्द्राग्जरतीस्तनेषु तदीयकेशेषु च मन्दभावः ॥ ११ ॥
कृशत्वमासील्ल्लनोदरेषु छेदोऽपि पुष्पावचये तरूणाम् ।
स्तम्भोऽप्यनङ्गप्रभवोऽभिकेषु रते नवोढाकरुणप्रलापः ॥ १२॥
मनस्विनीसान्त्वन एव चाटु तभ्द्रूषु कौटिल्यमभूत्सुहारि ।
व्यथा हि कामाहिततीक्ष्णबाणपातेन पान्थेषु रतोत्सुकेषु ॥ १३ ॥
धिग्वाद आसीत्परिचुम्बनेन यूनां नवोढानवसंगमेषु ।
कोपः क्षणं भर्तृषु मानिनीनां कृतापराधेष्वपरारतेन ॥ १४ ॥
तत्राभवद्विश्रुतकीर्तिपूरः संग्राममध्ये प्रवरः सुवीरः ।
साधुर्दयालुः सरलोऽतिधीरो राजा सुरत्राणमहम्मदाख्यः ॥ १५ ॥
तस्यातिभक्ता हितकार्यसक्ता नानाप्रतीता खलु मेरभक्ता ।
बभूव चेतोहरकान्तिरूपा भार्या निजान्तःपुरमुख्यभूता ॥ १६ ॥
तया समं चापरकामिनीभिः शृङ्गारकेलीर्विविधाः स कुर्वन् ।
बभार नो जातुचिदेव राज्यकार्यादिचिन्तां हृदि निर्विमर्शः ॥ १७ ॥
त्यक्तप्रजाजस्रविचार्यकार्ये तस्मिन्प्रयाते विपुले च काले ।
अदर्शनालापवशादमात्यवर्या विरक्ता निखिला बभूवुः ॥ १८ ॥
तस्यैकदा भूमिपतेः पुरस्तान्निरीक्षितुं वक्रमुपानिनाय ।
सुनिर्मलं दर्पणमुच्चशोभं बाह्याङ्गने नापित एक एव ॥ १९ ॥
आदर्शमध्ये स ददर्श राजा वक्र जरापाण्डुररोमकूर्चम्
ततः प्रदध्यौ सहसा विमुच्य तद्दर्पणं जातघनानुतापः ॥ २० ॥
इयत्यहो भूरितरे च काले यातेऽपदानं न हि किंचिदेव ।
अकार्षमुच्चैर्नरनाथयोग्यं वयोऽनयं निष्कलतावशेषम् ॥ २१ ॥
ध्यात्वेति तां रात्रिमथातिवाह्य प्रातर्वितीर्य स्वपुरे निजाज्ञाम् ।
विनिर्ययौ सर्वसहाययोधभृत्यान्वितः सन्मृगयां विधातुम् ॥ २२ ॥


१. 'सुल्तान' इति यावनीभाषायाम्.