पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

निमान्। इयमेषां वञ्चनाचातुरी, स खलु वञ्चकः केनाप्युपायेन लोकानां मनोगतमर्थं विदित्वा तेषां पुर आत्मनस्त्रिकालदर्शित्वं नाटयति । यदुच्यते, स लोकेभ्यो वरदानं ददाति, रोगिणां रोगांश्च दूरीकरोतीति, तच्छ्रद्धाजडानां विश्वासभूयिष्ठताविजम्भित मात्रमेव गभीरेण विश्वासेन दुःसाध्या अपि व्याधयो दूरीभवन्ति ! उत्कटा बहवो मनोरथा अपि विश्वासमात्रेणैव पूर्यन्ते । यदि तस्मिन् वास्तविकी कापि लोकोत्तरा शक्तिरभविष्यत् स कदापि लोकालये जनसम्मर्दमध्ये निवासं नाकरिष्यत् । तस्य तु निर्जनं वनमेव समुचितं स्थानम्, यत्र मनुजगन्धोऽपि न भवेत्। मेघश्यामोऽब्रूत-“एकदा केनापिऽपि तस्मै पृष्टमासीत्-“भगवन्! शान्ति- मयमात्मन. एकान्तस्थानं परित्यज्यं लोकालयऽस्मिन् किमर्थमागतं भगवता?" इति । स चाऽत्यन्तगभीराकृतिरपि प्रसन्नवदनो लक्ष्यते । रोषकषायितः सा नाद्यापि केनापि दृष्टः । प्रष्टारस्तु विविधान् कुटिलाननुचितानपि प्रश्नान् तन्वते, परंतु तस्य महात्मनो वदने तैरनुचितानुयोगैरेकाऽपि लघीयस्यपि विकारलखा न दृग्गोचरीभवति । तथाविधेऽवसरे स केवलं तूष्णीमास्ते वचसा न किञ्चिदप्युत्तरयति । लोकालयागमनहेतुं पृच्छते सज्जनाय तेनेत्थमुत्तरितम्--“वत्स ! भगवदिच्छेवास्माकं प्रेरिका शक्तिः तद्वशंवद् एवाहमत्रागतोऽस्मि । विचारितं च चेतसि-कार्तिकेऽस्मिन् पुण्यमासे गङ्गास्नानार्थं काश्यां गङ्गातीरे वसतिः कर्तव्येति । अतीते चास्मिन्मासे स्थानमिदं परित्यज्याऽन्यतो गन्तव्यं भवेदिति सम्भावयामि"

 सोत्कण्ठं मयाऽप्राक्षि--"त्वया सर्वमिदं कथमवगतम् ? एक तव ज्ञातपरिचित कश्चित्सज्जनस्तदन्तिकं गत आसीत् ?' । तेनोत्तरितम्-“न हि, ज्ञातंपरिचितो न कश्चिदूगतस्तत्र । अहं स्वयमेव गत आसम् । लोके- भयस्तत्प्रशंसावादं निशम्य स्वयमपि तं पश्येयमिति विचारितवान् । यदाऽहं तत्रागच्छम्, तदा स महात्मा समुत्तिष्ठन्नेवासीत् प्रणम्य समुपविशन्तं मासबादीत्-“वत्स ! किमिच्छसि ?' मयोत्तरितम्-“केवलं भगवतो दर्शनम् ।' तेनोक्तम् “न हि, न केवलं दर्शनाभिलाषेणागतोऽसि, अन्यद- प्यस्ति किंचित्तव चेतसि' । पुनरहमब्रवम्-“भगवन् ! अहमिदं प्रष्टुमि- च्छामि, यत् प्रातःकालं विहाय कालान्तरेऽपि भगवतो दर्शनं सम्भवति न वा ? मम हि द्वित्राः सन्ति प्रश्ना अनुयोक्तुम्’ । महात्मा ऽब्रूत- “इदानीं तु नाहं स्थातुं शक्रोमि अतिक्राम्यति समयः, नियमानुसारं तु मया कालान्तरे कस्यापि केपि प्रश्ना न समाधीयन्ते। प्रश्रोत्तराणां तु कथैव-