पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/3

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यदृष्टि' रित्याख्यायाः सरलसंस्कृतलघुकथाया उपोद्घातं लिख तामस्माकं महान् प्रमोदो भवति । संस्कृतसाहित्ये किल श्रङ्गुलि परिगणनीया एव त्रिचतुरा गद्यनिबन्धाः सन्ति, दीर्घसमासान्वितश्ले षाद्यलङ्कारगम्भीरप्रौढभाषोपनिबद्धास्ते परिनिष्ठितानां विदुषामुत्तमवर्गी याणां छात्राणां वा मनोरञ्जनाय भाषाभ्यासपाटवाय च प्रभवन्ति । प्रथममध्यमपरीक्षाश्रेणिगतच्छात्राणां कृते नासीत्कोऽपि तथाविधो लघुः सरलश्च गद्यबन्धः, यः किल मनोरञ्जनपुरस्सरं तेषामनुवादाभ्यास पाटवमापादयत् । काशीस्थराजकीयसरस्वतीभवनोपाध्यक्षसाहित्याचार्यामरभारतीसंपा दक-खिस्तेनारायणशास्त्रिभिर्निबद्धा ‘दिव्यदृष्टि' नामान्डुतरसमयाय लघुकथा ऽश्लीलाद्यवद्यवर्जिता सरला संवाद्रूपा चास्तीत्येषा निःशङ्कम ल्पवयसामपरिपकबुद्धीनामपि छात्राणां हस्ते दातुं योग्याऽस्ति । भूयो भूयोऽभ्यस्तयां चानया छात्राणां संस्कृतलेखपाटवं स्फुरिष्यतीति बाढं वयं विमृशामः । यद्यप्यस्मिन् संस्करणे बहवो मुद्रणप्रमादाः सन्ति, तथाऽपि द्वितीय संस्करणे तन्निवारणं भविष्यति, पुस्तकं च कथाप्रसङ्गोपयुक्तचित्रादिभिर्विः भूषयिष्यत इति वयमाशास्महे । गवर्नमेण्ट संस्कृत कालेज सरस्वताभवन्नम् काशा । श्रीत्रिभुवनप्रसादोपाध्यायाः व्याकरणाचार्याः, एम० ए० ) इन्स्पेक्टर आफ संस्कृतपाठशालाजू यू० पी०, बनारस ।