पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/23

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
दिव्यदृष्टिः

सम्भवतीति । तदेव इच्छाशक्तिमाहात्म्यं मया तुभ्यं प्रदर्शितम् । अलम, नातः परं तव कोऽप्यर्थः । अहमधुना विश्रान्तिमिच्छामि ।"

 मया प्राऽञ्जलिना सविनयमभिहितम्-“भगवन् ! बाढमुपकृत भग- वता । भगवतः प्रसादादेव इममद्भुतं व्यापारं द्रष्टुमहमपारयम् । इदमेकमे वापरमहमत्र बोद्धुच्छामि, मया तदानीं यद् धूमशकटीविश्रामधाम दृष्टम् यत्र धूमशकटी स्थिरा ऽऽसीत् किं नामधेयं तत् ?"

 महात्मा ऽगादीत्-“वत्स ! नातः परं किंचिदप्यहं विवक्षामि, तव प्रार्थनया यावन्मया कथितं, दर्शितं च तावदेव बहु मन्यस्व । कदाचि- न्ममैतेन व्यापारेण जगन्नियन्तुः संसारचक्रगतेः किञ्चित् प्रयोजनं सम्पा- दितं स्यात्, यदिदमेतावन्मया त्वदर्थं प्रयतितम्, तदपि तव मित्रस्य मेघ- श्यामस्य कारणात् । मेघश्याम ! मया नाद्य यावत् ते कथितम् अद्य प्रातर्यदा त्वमत्रागतः, तदा वदतस्तव मुखात्तव पितुर्नाम श्रुत्वा त्वामहं विज्ञातवान् । तव पिता किल बाल्ये मम सतीर्थ्य आसीत् । आवां पूज्यपादस्य रुक्माङ्गदाचार्यस्य गुरोः पाठशालायां सहैव वेदाभ्यासम करवाव । तव पिता तु गुरुगृहादुपावर्त्य गार्हस्थ्यमाचरत् । अहं हि शाश्वते ब्रह्मणि स्थित्वा गुरोरादेशमनुसरन् तीर्थाटनं करोमि । द्वादश वत्सरेभ्यः पूर्वं यदाहमत्रागमम् तदा तव पिता अष्टवर्षावस्थेन त्वया सह मां द्रष्टुमागत आसीत् । अस्तु । तव सन्तोषायैव मयाऽस्य तव मित्रस्य प्रश्नानामुत्तराणि दत्तानि, दर्शितं च यत्तेन द्रष्टुमिष्टम्” ।

 मेघश्यामः प्रणम्य बभाषे–“भगवन् ! न मम विदितमासीत् स्वर्गवासिना मम तातेन सह भगवतः सौहार्दम् । मम तातः कदाचिद्वा- ताप्रसङ्गे स्वसतीर्थ्यस्य कस्यापि महानन्दब्रह्मचारिणो विषये ऽद्भुतादद्भुत- मितिवृतं कथयतिस्म, किं तद्भगवन्तमधिकृत्यैव भवेत् ?”

 महात्मा सस्मितमभाषत-“हुम् , अलमनया प्रसक्तानुप्रसक्तया कथया । अस्ति वा किमप्यन्यत् ते प्रष्टव्यम् ?"

 मेघश्यामः पुनरब्रूत “भगवन् ! भवन्तं दृष्टा सुरलोकान्प्रत्यावृत्तं पितरमहं पश्यामीव । भगवद्नुग्रहान्न किञ्चिदपि मे न्यूनम् । धर्मे मम मतिः स्थिराऽस्त्वित्येव मे प्रार्थनीयम् । अयं मम सखा ललितकुमारः क्वापि न विश्वसिति, धर्मकर्मादिकं सर्वमाप पाखण्डं मन्यते ! प्राय: प्रत्यहं मया सह विवदते । मां च मूर्खं भणति । भगवताऽस्य संशयं छित्वा बहूपकृतम् । चेत्कापि सेवा, समादिश्येत भगवता, नूनमात्मानं धन्यं मन्येय । श्वः पुनर्भगवतो दर्शनं भविष्यति ?"