पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः पटलः। १२५ ततः पद्मानधिं चेष्टा वास्त्वन्ते पुरुषं यजेत् । द्वारश्रीं च गणेशं च पूजयेञ्च सरस्वतीम् ॥ ३० ॥ देहलीमपि सम्पूज्ज्य पूजयेद् द्वारमण्डलम् । हल्लेखां च श्रियो बीजमादौ संयोजयेत्ततः ॥ ३१ ॥ नामान्ते श्रीपदं वाच्यं पादुकां पूजयामि च । अनेन क्रमयोगेन सम्पूज्याः सर्वमातरः ॥ ३२ ॥ रक्तासनोपविष्टस्तु चकोद्धारं समाचरेत् । शक्त्योपरिष्टाच्छक्तिं तु विलिखेद्विस्तृतां सकृत् ॥३३॥ वह्निनान्ते पुटीकुर्यात्सन्धिभेदक्रमेण तु । अग्नीशासुरवायव्यरेखा विस्तार्य योजयेत् ॥ ३४ ॥ दशकोणं यथा देवि जायते तद्वदेव हि । मध्यकोणचतुष्कस्य रेखे आकृष्य बुद्धिमान् ॥ ३५ ॥ तत्तत्सन्धिविभेदेन मन्वस्रं जायते यथा । समत्रिकोणशक्त्यैकं सुखदं नेत्रयोर्य्यथा ॥ ३६ ॥ सुश्रीकं संधिभेदेन ऋजुरेखाविजृम्मितम् । वहिरष्टदलं पद्मं सुवृत्तेन समालिखेत् ॥ ३७॥ तद्वत्षोडशपत्रं हि विलिखेत्पद्ममुत्तमम् । त्रिवृत्तं परमेशानि ततो भूबिम्बमालिखेत् ॥ ३८ ॥ चतुरद्वारविशोभाढ्यं पुष्पं तत्र विनिःक्षिपेत् । गण्डकीम-पाषाणे स्वर्णे रजतताम्रयोः ॥ ३९ ॥