पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ दक्षिणामूर्तिसंहिता। भास्वद्रत्नौघमुकुटां स्फुरच्चन्द्रकलाधराम् ॥ २१ ॥ सद्यः संतप्तहेमाभां सूर्यमण्डलरूपिणीम् । पाशाङ्कुशाभयवरां स्मेर1दनु जपेत्ततः ॥ २२ ॥ गायत्री सुभगायास्तु त्रिधा बीजस्वरूपिणी । वाग्भवान्ते लिखेद्देवि वाग्भवे विश्व2विग्रहे ॥ २३ ॥ द्वितीयं कूटमुच्चार्य कामिनीश्वरि धीमहि । तृतीयं कूटमुच्चार्य तन्नः शक्तिः प्रचोदयात् ॥२४॥ यथाशक्ति जपं कुर्यात् श्रीविद्यां च ततो जपेत् । अथ यागगृहं पुण्य3मलक्तकविभूषितम् ।। २५ ॥ अनेकचित्रसुभगं भूमौ गोमयचर्चितम् । उपविश्योल्लसत्पुष्पं सुभगं धूपधूपितम् ॥ २६ ॥ दीपमालावलीरम्य विकीर्णकुसुमोज्वलम् । तत्रागत्य यजेद्विद्वान् मौनी ज्ञानी सदा शुचिः २७ सर्वाभरणसम्पन्नस्त्रिपुरार्चनमण्डपम् । ङेन्तं नमोऽनेन पूजामण्डपस्य सुलोचने ॥ २८ ॥ गणपं क्षेत्रपालं च धातारं च विपूर्वकम् । गङ्गा च यमुना चैव तथा शङ्खनिधिः क्रमात् ॥२९॥ (१) स्मरेदयजपेत्तः इति पा० । (२) बाग्भवेश्वरिविद्महे इति पा० । (३)अथवागगृहं आयात्' इति पा० ।