पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
५५
पदत्रयस्य फलरक्षकत्वम्


शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात्; तथा ‘स्सत्य’ शब्देनापि--सर्वविशे यप्रत्यंस्तमितस्वरूपत्वाब्रह्मणःबाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्य ते- सत्यं ब्रह्म ’ इति, न तु 'सत्य' शब्दवाच्यमेव ब्रह्म । एवं सत्यादिशब्दं इतरेतरसंनिधावन्योन्यनियस्यनियामकाः सन्तः सत्यादिशब्दवाच्यान्निवर्तको


चेति । कथं तर्हि ‘शनं’ बजेति प्रयोगः ? तत्राऽङ्ग-तथाऽपीति। शब्दस्य प्रवृत्तिहेतवो जत्यादिधर्मा ‘गौः, ‘क’ इत्यादौ, तदभावाच्छब्दान्तरेणापि वाच्यं न भवतीत्याह तथेति । तथा ‘सत्य’ शब्देनापि न वाच्यं अत्रेति शेषः। एतत्स्फुटयति-सर्वविशेषते । सत्ता यस्यास्ति तत्सत्यमिति लोकरूहिः । सत्ता चानुगतरूपं सामान्यंव्याघ्त्ताः सत्ताविशे षाः । स चायमद्ववृत्तव्यावृत्तभावो न वस्तु परस्परापेक्षसिद्धत्वाय-अतो यस्मित्रयं व्यावृत्तावदृत्तभावः काल्पितः, तदव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः। एवमेकैकस्य शब्दस्यार्थयुक्त्वा वाक्यार्थमाह-एवं सत्यादीति । यद्यपि सत्यादिशब्दानां ब्रह्माण मुख्योऽन्वयःतथाऽप्यरुणयैकहायन्यादिर्वेत्पार्धिकान्वयेनेतरेतरसंनिधावन्योन्यस्य वृत्तिनिया- मका भवन्ति-शनेन विशेषणात् ‘सत्य ' शब्दो न जडे कारणे वर्तते, सत्येन विशेषणात्


(१) वात्सल्यानन्तसामानाधिकरण्यात्तथा। °त्वात्सत्यानन्तशब्दाभ्यां सामानाधिकरण्यात्तथा इति वा पाठः । (२) प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम्। वचसामारमसंवेद्य तज्ज्ञानं ब्रह्मसंशितम् ।। तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् । तद्विश्वरूपवैरूप्यलक्षणं परमात्मनः । -विष्णु- पु. ६. ८५३-४

(३) ‘गौः, ‘शुङ,’ चर’ डित्थः-इत्यादौ चतुष्टयीशब्दानां प्रवृति–इति ‘फ़ल्छ’ इति शिवूसने महा भाष्ये । “षट्चीगुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते” ॥ नै. सि. ३. १०३. कचित्वष्ठयर्थः संबन्धः शब्दप्रवृत्तिनिमित्तम्, यथाराजपुरुष इत्यादिः कचिह्नणयोगः, यथा-शुक्लः पट इत्यादिः; क्वचिक्रियायोगः, यथा-पाचक इत्यादिः, क्वचिजातियोगः, यथा गौ, अश्वः, पुरुष इत्यदिः क्वचिदूढिः, यथा-आकाशः, द्यौः, अभ्रमित्यादिः। एतेषां शब्दप्रवृत्तिनिमित्तानाम् -अन्यतमस्याप्यात्मन्यस झ्वात्-अगुणत्वात्, अविक्रियत्वात्, असामान्यत्वात्, प्रमाणान्तरायोग्यत्वेनागृहीतसंबन्धत्वाच-अभावा नाभिधेय आत्मेत्यर्थः । तुल्य-संक्षेपशा. १. २३९. (४) अनेकपदात्मके वाक्ये एकपदप्राधान्येनान्वयस्य वक्तव्यत्वात् प्रतिपदार्थं प्राधान्ये चान्वयाप्रतिपत्तेः, वाक्यप्रयोगवैययंपातात्, अस्य च वाक्यस्य ब्रह्लक्ष- णपरत्वात्, लक्षणानां च लक्ष्यार्थत्वात्, तद्वाचिपदप्राधान्येनान्वयात् युक्तोऽयमुक्तो विभाग इति भावः । यद्येवं, ‘ सत्यं ब्रह्म '१ ‘ शतं ब्रह्म ’ इति प्रकारेणान्वयः स्यात्; तथाच सत्यादीनां परस्परमेकत्वासिद्धेः, एकत्रह्मस्वरूपलक्षणता तेषां न स्यात्, अनेकस्यैकस्वरूपत्वायोगात्-इत्याशङ्कश्च तेषां एकार्थदच्छेदकतया मिथ एवं संदृष्टान्तमाह-यथा “ अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति'-(तै. सं. १. १. ६. ७.; ७. १. ६. २.; जै. स. ३. १. १२.) इत्यत्र क्रयवाचिना क्रीणातीतिक्रियापदेनारुणादिपदमेकक्रयावच्छे दकतयैकवाक्यभावं गच्छति, तद्वदेकस्यैव ब्रह्मवस्तुनो लक्षकतया सत्यादीनां विशेषणत्वाद्विशेषणानां च लक्षकाणां लक्ष्यस्वरूपैकपर्यवसाननियमाद्युक्तमेषामेकत्वम् । तुलय-संक्षेप. शा. १. १७५-६.