पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


 यत्तु ब्रह्मणो विज्ञानं,तत्सवितृप्रकाशवदनभ्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिकं स्वरूपमेव तत् ; न तत् कारणान्तरसव्यपेक्षम्, नित्यस्वरूपत्वात् । सर्वभावनां च तेनाविभक्तदेशकालत्वात्, कालाकाशादिकारणत्वात्, निरतिशयसूक्ष्मत्वाच्च न तस्यान्यदविज्ञेयं,सूक्ष्मं,व्यवहितं,विप्रकृष्टं,भूतं,भवत्,भविष्यद्वाऽस्ति; तस्मात्सर्वज्ञम् तद्ब्रह्म मन्त्रवणञ्च- "अपाणिपादो जवनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यम्, न च तस्यास्ति वेत्ता, तमाहुरग्र्यम् पुरुषं महान्तंम्” ॥ इति;  नहि विज्ञातुर्विज्ञतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति" इत्यादिश्रुतेश्च ।

 विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः; अतो नैव धात्वर्थस्तत्-अक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ ।

ब्रह्मणोऽवच्यत्वम्  तस्मादेव च न ‘ज्ञान’ शब्दवाच्यमपि तद्रह्म । तथाऽपि तदाभासवाचकेन

बुद्धिधर्मविशेषेण 'ज्ञानशब्देन तल्लक्ष्यते, न तुच्यते,-

वृत्तिमदन्तःकरणोपहितत्वेनाऽऽत्मनो ज्ञातृत्वं, न स्वतः, कार्यत्वं च ज्ञानस्यान्तःकरणवृत्यु पहितत्वेन, तत आत्माभिनत्वेऽपि ब्रह्मणौ न शनकर्तृत्वं, नापि कार्यत्वं प्रसज्यत इत्याह—न स्वरूपेति ।

 नित्यं चेज्ज्ञानं, तर्हि तत्र ब्रह्मणः कर्तृत्वाभावे कथं सर्वज्ञत्वमित्यत आह-सर्वभा वानां चेति । संविदध्यवधानमेव हि विषयस्य सिद्धिः, सवं च संवित्स्वभावेन जल गाऽव्यवहितमिति सर्वशं ब्रह्मोपचर्यत इत्यर्थः । नित्यं ज्ञानं ब्रह्मणि विषयत इत्यत्र मन्त्रसं मतमाह-मन्त्रवणचोद्यते ।

 ब्रह्मनित्यं, ज्ञानत्वालैकिकज्ञानवदित्यादि चोवमप्युक्तन्यायेन निरस्तमित्याह-विज्ञातु स्वरूपेति । लैकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेढे,-सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावाव; अन्यथा सुषुप्तिसिद्धयनुपपत्तेः परामर्शसंभवप्रसङ्गा;-अतः श्रुतितात्पयंगम्ये ऽर्थे न सामान्यतोदृष्टस्य प्रवेश इति भावः । आत्मनः स्वरूपभृतं शनं कारकसाध्यं धात्वर्थत्वादिति चासिद्धमित्याह-अत इति । नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य, न तत्र कर्तृत्वमपि जण आपादयितुं शक्यते ।

 लौकिकानित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह--तस्मादेव


(१) थे.उ. ३. १९ (२) बु. उ. ४. ३. ३०. (३) विषयेण–पाठः