पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७ सप्तमोऽनुवाकः]]
२३
सोपाधिकब्रह्मोपासनम्


अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः। चक्षुः

श्रोत्रं मनो वाक्त्वक् । चर्म माम्सम् स्नावास्थि मज्जा ।

एतदधिविधाय ऋषिरवोचत्। पाङ्क्तम् वा इदम् सर्वम् ।

पाङ्क्तेनैव पाङ्क्तम् स्पृणोतीति (१)॥

सर्वमेकं च ।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां सप्तमोऽनुवाकः ॥ ७ ॥


ट्-भूताधिकारात् । 'इत्यधिभूतम्' –इत्यधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम् । लोकदेवतापाङ्क्त्योश्चाभिहितत्वात् । अध्यात्मपञ्चकत्रयम् अथ-अनन्तरमध्यात्मं पाङ्क्तत्रयमुच्यते- प्राणादि वायुपाङ्क्तम्; चक्षुरादीन्द्रिय पाङ्कम्; चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मं बाह्यम् च पाङ्क्तमेवेति ।

पाङ्क्तषट्कस्योपासना  एतदेवमधिविधाय परिकल्प्यर्षिर्वेदः, एतद्दर्शनसंपन्नो वा कश्चिदृषिरवोचदुक्तवान् । किम् ? इत्याह--पाङ्क्तम् वा इदं सर्वम्; पाङ्क्तेनैवाऽऽध्यात्मिकेन सम्ख्यासामान्यात्पाङ्क्तम् बाह्यम् स्पृणोति बलयति पूरयति- एकात्मतयोपलभत इत्येतत्; एवं पाङ्क्तमिदं सर्वमिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥


व्यादेः कथं पाङ्कत्वमित्याकाङ्कायां पङ्कयाख्यस्यच्छन्दसः संपादनादित्याह--पश्चसङ्घेति । न केवलं पञ्चसह्यागुणयोगात् पङ्किच्छन्दःसंपादनं, यज्ञत्वसंपादनमपि कर्तुं शक्यत इत्याह- पाद् यश इति। पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिः संपाद्यत इति यज्ञः पाङ्क इत्यर्थः। ॐ दैत्कृष्टदृष्टिर्निकृष्टे फलवती’ इति न्यायाद्धापाङ्गरूपेणाऽऽध्यात्मिकं पाङ्कत्रयमवगन्तब्य- मित्यभिप्रेत्याऽऽह-एकात्मतयेति ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोपनिषच्छां करभाष्य टिप्पणे शिक्षावल्ल्यां सप्तमोऽनुवाकः ॥ ७ ॥


(१) यस्मिन्देहेन्द्रियादिसंघाते शास्त्रसंस्काररहितस्य जनस्याहमिति बुद्धिः, सोऽयं लोकप्रसिद्ध आरम् ,तमधिकृत्य यदुपासनं वर्तते तदध्यात्मम्।(२)= दृष्ट्-इति वार्तिके; अधिकं साक्षात्कारपर्यन्तं यथा भवतितथोपास्य स्वानुभवेन सर्वात्मकं विराडूपं प्राप्य-इति साऽभाष्ये। (३)तुल्यतैज्ञा-१.१०(४)पधसंख्याव