पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ तैत्तिरीटपेशनिधन् सु॒व॒र्न ज्योः । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् (६) ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्या दशमोऽनुवाकः ॥ १० ॥ [ भृगु-वल्ली त्वप्राप्तेर्मोक्षात्, अस्तु संसार एव, यतो मुक्तोऽप्यहमन्नभूत अद्यः स्यामं- न्यस्य । एवं मा भैषीः संव्यव. रविलयत्वात्सर्वकामाशनस्य | अतीत्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापनो विद्वान्; तस्य नैव द्वितीयं वस्त्वन्तरमस्ति, यतो बिभेति, अतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह - 'अहमन्नमहमन्नादः ' इति ? उच्यते । योऽयमन्नान्ना- दादिलक्षणः संव्यवहारः कार्यभूतः स संव्यवहारमात्रमेव, न परमार्थवस्तुः स एवंभूतोऽपि ब्रह्मनिमित्तः --ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याका- र्यस्य - ब्रह्मभावस्य - स्तुत्यर्थमुच्यते— अहमनमहमन्नमहमन्नम् | अहमन्नादो- ऽहमन्नादोऽहमन्नादः ' इत्यादि । अतो भयादिदोषगन्धोऽप्यविद्यानिमित्तो- ऽविद्योच्छेदाद्ब्रह्मभूतस्य नास्ति, इत्यहं विश्वं समस्तं भुवनं भूतैः संभज- नीयं ब्रह्मादिभिः—भवन्तीति वाऽस्मिन्भूतानीति 'भुवनम्' अभ्यभवामभिभवामि परेणेश्वरेण स्वरूपेण । सुवर्न ज्योती:- सुवरादित्यः, 'न' कार उपमार्थे; — आदित्य इव सकृद्विभात - भस्मदीयं ज्योतीज्योतिः- प्रकाश इत्यर्थः । इति – वल्लीद्वयविहिता- 'उपनिषत् परमात्मज्ञानं, – तामेतां यथोक्तामुप- विदुष एव सर्वा - निषदं 'शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा' भृगुव- तपो महदास्थाय य एवं वेद, तस्येदं फलं यथोक्त मोक्ष इति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि भृगुवल्ल्यां दशमोऽनुवाकः ॥ १० ॥ त्मत्वानुभवः इत्यवतीति व्याख्यातम् । ‘ अभिभवामि' उपसंहरामीत्यर्थः । ईश्वरात्मताज्ञानेनाहंबावेऽद्वैतं, ततो नास्ति भयकारणमित्यर्थः । ‘न' कार इवायें || इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप- निषच्छांकरभाष्यटिप्पणे भृगुवल्यां दशमोऽनुवाकः ॥ १० ॥ (१) आद्यः –पाठः । (२) अन्नस्य – पाटः । ( ३ ) बृ. उ. ४. ४. २३..