पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


यः--—आत्मन आत्मशब्दवाच्यात् , आत्मा हि तत्सर्वस्य, “तत्सत्यं स आत्मा” . इति श्रुत्यन्तरात्, अतो ब्रह्माऽऽत्मा।

 तस्मादेतस्माद्रह्मणः—आत्मस्वरूपाआकाशः संभूतः समुत्पन्नःआकाश भूतयष्टिः नाम शब्दगुण, अवकाशकरो मूर्तद्रव्याणाम् । तस्मादाकाशा = स्वेन स्पर्शगुणेन पूर्वेण च कारंणगुणेन शब्देन द्विगुणो वायुः-' संभूतः-- इत्यनुवर्तते । वयोश्च-स्वेतु रूपगुणेन पूर्वाभ्यां च-त्रिगुणोऽग्निः संभूतः । अनेश्व-स्वेन रसगुणेन पूर्वंश्च त्रिभिः चतुर्गुणा आपः संभूताः। अद्रथः स्वेन गन्धगुणेन पूर्वंश्च चतुर्भिः-पञ्चगुणा पृथिवी संभूता ।


परमात्मनः सर्वत्रोपादानत्वात् । आकाशभावापन्नात्परमात्मन एव वायुः संभूतः, अत एव


सा चानवस्थिता” । बृ- अ. वार्तिके १.४. ४०२. इदमेवं समुपबृहितं ब्रह्मागीतासु (३. ३४) ब्रह्मरूपा त्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् । अपीकृत आकाशः संभूतो रज्जुसर्पवत् ॥ .२०असलै दासीनस्य परमार्थतो निरविद्यस्य नश्रुत्वासंभव इत्यभिप्रेत्य तत्संभावनायाऽऽह-शक्तिमिश्रितादिति । प्राणि कर्मपरिपाकवशेन सिमुक्षितकार्यप्रपञ्चोन्मुखतत्स्वरूपपारेकालेपतवन तदाश्रिता मायाशक्ति, तन्मिश्रितात्तदुपा धिकादित्यर्थः। एवं मायाशक्तिबलाद्भद्रूपादारमनः सकाशादपक्चीकृतः सूक्ष्मशब्दगुणोऽवकाशामक आकाशः संभूतः समुत्पन्नः । निमित्तकारणवाचिशब्दादपि पञ्चमी भवति-इतौ विधानात् । तथोपादानकारणवा- चिशब्दादपि ‘‘ जनिकर्तुः प्रकृतिः ” (पा. सू. १. ४. ३०) इति स्मरणात् । एवं चात्र तस्मादिति पञ्चमी तदुभयरूपा तन्त्रेणोपात्ता द्रष्टव्या । ब्रहैव कार्यस्य जगतो निमित्तमुपादानं च । “ सोऽकामयत बहु स्यां प्रजायेय " (तै. ड. २- ६.) इति कामयित्वेन स्वस्यैव बहुभावेन चाभिन्नानिमित्तोपादानस्याग्रे प्रतिपादित वात् । बादरायणोऽपि ब्रह्मण उभयरूपत्वं स्त्रयामास—‘प्रकृतिश्च प्रतिशदृष्टान्तानुपरोधात्” (ब्रः सु. १,४. २३. ) इति । ये त्वस्पर्शद्रव्यत्वादात्मवदाकाशस्य नित्यत्वं मन्यमानाः ‘ संत ’ इत्यभिव्यक्तिपरतयोक्तमर्थम न्यथयन्ति, ते बादरायणेनैव ‘ न वियदश्रुतेः ” (ब्रः स्. २. ३. १. ७ ) इत्यधिकरणे निराकृताः । ननु वियदादिकार्यप्रपञ्चेनैव वस्तुना ब्रह्मणः परिच्छेदः स्यात्; तथा ब्रह्मोपादानं सत् क्षीरदधिन्यायेन जगदाकारेण परिणमते, अथवा भृङ्गटन्यायेन जगदारभते-इत्यनयोरन्यतरदीकर्तव्यम् । तथाच ब्रह्मणोऽनित्यत्वादिप्रसक्ति रित्याशंक्याऽऽह -रज्जुसर्पवदिति । न खल्वत्रारम्भवादः, परिणामवादो व विवक्षितः, येनैवं प्रसज्येत; आपितु विवर्तवाद एव विवक्षितः । यथा रजुः स्वयमविकृतैव सती मायया सर्वाकारेण विवर्तते, एवं ब्रह्मापि निर्दि कारमेव सत् स्वमायाशक्तिविलासेन वियददिजगदाकारेण विवर्तते । कारणस्वरूपाविरोधेन कार्यप्रतिभासो वि वर्तः । अतो ब्रह्मणो निर्विकारत्वाविघातान्नानित्यत्वप्रसक्तिरित्यर्थः । अयमेवार्थों बादरायणेनापि « कृत्कलप्रस- क्तिनरवयवत्वशब्दको पो वा ” (ब्र. सं. २. १. २६.) इत्यत्र निर्णीतः। एवं ब्रह्माकारस्य वियदादिभूतभै- तिकप्रपञ्चस्याधिष्ठाने ब्रह्मणि कारणे मायापरिकल्पितत्वेन रजुसर्पवदेवाधिष्ठानादव्यतिरिक्तत्वम् । यथा च मृत्कार्यं घटशरावोदञ्चनादिकं कारणभूतमृध्द्यतिरेकेणाळब्धसत्ताकवात् पृथुबुन्नोदराकारादिरूपाविशेषस्य तद्वा चकघटादिशब्दस्य च वाचारम्भणमात्रत्वात् कारणमृन्मात्रमेव, न तु ततोऽन्यत् । एवं ब्रह्मकार्यस्यापि कार- णानन्यत्वाद्रह्मणस्तकृतपरिच्छेदो न शंकनीय इत्यर्थः”- तात्पर्यशपिका । १) छां• उ. ६. ८. ७. (२) आकाशरूपापन्नाद्हणः (३) आकाशगु°–पाठः (४) वायुरूपापः न्नाद्रह्मणः एवमग्नेऽप्युह्यम् । परमारमैवाकाशवाखाद्यकारेण प्रतिभासत इत्यर्थः ।