सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
६३
अन्नमयकोशः


स वा एष पुरुषोऽन्नरसमयः ।

भोतृभौतिकशपथदृष्टिः पृथिव्यो ओषधयः । ओषधीभ्योऽन्नम् । अन्नद्रेतोर्जपेण परिणतात्पुरुषः शिरःपाण्याद्यातिमान् ॥

 सं वा एष पुरुषोऽन्नरसमयोऽन्नरसविकारः । पुरुषाकृतिभावितं हि सर्वे भ्योऽब्रेभ्यस्तेजःसंभूतं रेतो बीजं, तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात्सर्वजातिषु जायःशन जनकाकृतिनियमदर्शनात् ।

 सर्वेषामप्यन्नरसविकारत्वे, ब्रह्मवंश्यत्वे चाविशिष्टे, कस्मापुरुष एव गृह्यते ? शालाधिकास्त्वाित् प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारु-पुरुष पुरुषग्रहणम् एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधि क्रियते-“पुरुषे त्वेवाऽऽविस्तरामामा, स हि प्रज्ञानेन संपन्नतमो विज्ञातं प्राणभृदुपाधिषु वदति, विशतं पश्यति, वेद श्वस्तनं, वेद लोकालोकौ, मत्यै तारतम्यम् नास्मृतमप्सित्येवं संपन्न; अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् ”-इत्यादिश्रुत्यन्तरदर्शनात्।


तद्रुणस्योत्तरत्राढदृत्तिः; गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण, न वैशेषिक अक्षवत्तत्वभेदाभिप्रायेण, तत्वतो भेदे प्रमाणाभावा-इति द्रष्टव्यम् ॥

 पुरुषग्रहणस्य तात्पर्यमाह-सर्वेषामपीति ।“ शक्तत्वात् ’ इति-विधिनिषेघाविवेकसा अथ्यपेतत्वादिति--उक्तं, तत्रैतरेयकश्रुतिसंमतिमाह -पुरुषे त्वेवेति । ब्राह्मण्यादिजाति मति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा शनातिशयदर्शनादित्यर्थः । मत्यैन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः। येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विव क्षितं तत्पधादीनां नास्तीत्याह-अथेतरेषामिति ।


(१) ‘पृथिव्या ओषधयः' इत्योषधीनां पल्लीकृतपृथ्वीकार्यत्वश्रवणात्पञ्चीकृतमहाभूतोत्पत्तेरिहोक्तत्वेन पक्ची कृतमहाभूतशरीरत्वाद्विराजस्तदुत्पत्यैवोत्पत्तिः सिद्धा । अपि च विराजः सूत्रकार्यत्वाकारणस्यापि सूत्रस्योप तिरिहाभिप्रेता । (२) ‘यो वेद निहितं गुहायाम् ’ इत्युक्तं गुहानिहितत्वं समर्थयितुमन्नमयादिभ्य आनन्दम यान्तेभ्यः पञ्चभ्यः कोशेभ्यो ब्रह्मतत्त्वं विवेक्तुकाम आदावन्नमयकोशं दर्शयति--« स वा एषः ”–इत्या- दि। (३) ऐ. आ. २. ३. २.^ न विशालं वदन्ति, न विशालं पश्यन्ति, न विदुः श्वस्तनं न लोकालोकैौ त एतावन्तो भवन्ति—यथाप्रज्ञे हि संभवाः ” । इति वाक्यशेषः। लेकालोकौस्वर्गनरलोकौ । तात्कालिक क्षुधादिज्ञानोपेता गवाधादिपशवो भवन्ति, यतो ज्ञानकर्मानुसारेण जीवानां जन्मानि । एतदेवाभिप्रेत्य परलो कणामिनं जीवं प्रति वाजसनेयिन आमनन्ति—« तं विद्याकर्मणी समन्वारभेते पूर्वप्रशा च ” (बृ. ड. ४ ४. २. ) इति । “ पुण्यो वै पुण्येन कर्मणा भवति, पापः पापेन (ड़ छ, ४. ४. ५) इति च । नदेखें मनुष्यदेहस्योत्तमोपाधित्वात्तस्मिन्नेवाऽऽमन आविर्भावातिशयः