पृष्ठम्:तिलकमञ्जरी.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ काव्यमाला। नोन्मुखोऽभिमुखमुत्थाय प्रीतमनसा प्रवेशितो विचित्रवीर्यदेवेन काञ्चीपाललोकः । पितुः पर्यके निषण्णा सुता विवाहदर्शनोत्कण्ठिता तिष्ठति । अनारतप्रवृत्तहर्षाश्रुबिन्दुः श्वश्रूर्गन्धर्वदत्ता सौधशिखरा- प्रसङ्गी मुहूर्तमपि मार्गावलोकनान्नोपारमति । दुस्तरव्यसनबन्धुसुन्द- रीपुरःसरो मलयसुन्दर्याः सखीवर्गः । स्पृहयतितरां गन्धर्वकाग- मनाय संप्रत्येव विश्रान्तवैराश्रमपदादानीता नित्यवनवासदुःखदुर्बलाशी तरङ्गलेखा । निमन्त्रितागतोऽन्योऽपि बहुमन्यते समासीदन्तमुत्सवमु- सुको विद्याधरलोकः' इति निगद्य तूष्णीमभूत् । कोसलेन्द्रतनयो- ऽप्युपसंजातहर्षः सतर्षमाहूय सिंहलेश्वरसुतं दर्शयित्वा विचित्रवीर्य- लेखमाख्याय कल्याणकाख्यातमादितः प्रभृति पूर्वदिनवृत्तान्तमाब- द्धकरसंपुटः सहासमलपत्- 'चम्पाधिप, किमद्यापि चिन्तयसि । उत्तिष्ठ । कुरु गुरोर्वचनम् । अद्यापि दृढनिश्चया प्रवर्तितापि ज्ञाति- लोकेन दृष्टे त्वयि त्यक्ष्यति गृहीतानि वनवासवल्कलानि मलयसु- न्दरी' इत्यभिधाय संनिधापितप्रचुरमान्यखेचरबलं सुवेलं प्रति प्राहि- णोत् । कुमारोऽपि हरिवाहनस्तेनातर्कितेन समरकेतोर्विवाहोत्सवग- मनेन विस्थापितमनाः सायमाययौ खावासम् । अवसितायां च शर्व- र्यामुत्थाय शयनादास्थानमण्डपमुपागमत् । निषण्णस्य चास निर्वति- ततिलकमञ्जरीसंगमोत्सवेन राज्ञा चक्रसेनेन तत्संबन्धसचिवैः प्रसि- द्धनामभिर्विद्याधरनृपैरपारविभवैश्च नगरपोरैर्नृपाभिषेकमाङ्गलिकसंपाद- नाय प्रस्थापिताः प्रगल्भवचसः प्रधानपुरुषाः प्रविश्य दिव्यांशुकविले. पनालंकारकुसुमताम्बूलातिसर्जनेन पूजामकार्षुः । अपश्चितबहुमकारोप- चाराश्च स्थित्या मुहूर्तमर्चितास्तेनाजम्मुर्यथास्थानम् ।