पृष्ठम्:तिलकमञ्जरी.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। दिव्यप्रहरणाभिरपरस्परद्वेषिष्वननुभूताघातवेदनेषु द्विरदकेशरितुरङ्गम- हिषाजगरबर्हिणप्रमुखेषु वाहनेष्वारूढाभिः परिमिताभिरप्युत्तमाङ्गबाहुक- हुलतया प्रयत्नपरिभाव्यमानसंख्याभिः परिवृताम् , प्रधानदेवीभिरद्भुता- कारसुरनगरसंबाधेषु नन्दीश्वरादिषु विहृत्य द्विपेषु दक्षिणाशामुखादमि- मुखमापतन्तीं श्रियमपश्यत् । आगत्य चाग्रतो विधृतवाहानामाननपहि- तसस्मितनयनयुगलामवारितयथाप्रवृत्तपुरःसरपदातिवर्गों जिगमिधुमिवा- विलोक्य तामुपजातरोषेत्र निद्भुतहर्षचिह्ना शनैरवोचत्—'कमले, किमिति यानान्नावतरसि । किं त्वयापि क्षीणविमवा प्रियङ्गुसुन्दरी संजातेति विज्ञाताहम्' इत्यभिहिता विहस्य तां श्रीरवोचत्—'सखि, गमिष्याम्यहम् । अतिबहून्यहानि मे गृहानिर्गतायाः। मा कृथास्ताव- दधुना खस्थानगमनानुबन्धम् । अवहिता च शृणु निमेषमात्रमत्रैव स्थिताया ममागमनकारणम् । अद्य प्रातरेयाधिरूढे पूर्वगिरिशिखरमग्री- ढरोचिषि चण्डदीधितो धातकीखण्डचलितया मध्ये लवणसिन्धोरित- स्ततः प्रहितसप्रयलनयनया रनकूटाद्रिपरिसरे सोद्वेगपरिजना तव प्रियसखी प्रियंवदा दृष्टा । तया संदिष्टमेतद्भवत्याः-भगिनिके, दोषेण मे भगवतोऽपि वचनमप्रमाणं जातम् । स तावचिरेणापि न समागतो प्राता भवद्भर्तुः । अधुना च वर्तते मम गतप्रायमायुः । स्मरिष्यसि मे भवान्तरगतायाः । कारयिप्यसि च कारिते मया साना- ध्यमिह जगन्नाथभवने ।' इति निशम्य चोद्वेगभीमं प्रियसखीचरमसं- देशवचनमुद्विममानसा प्रियासुन्दरी प्रेमपरतया जीवन्त्या एव सख्या निवापसलिलाञ्जलिमिव प्रदातुं प्रतिदीर्घाभ्यामक्षिपात्राभ्यामुत्ससर्ज । अश्रुविसरमुत्सृष्टनयना च वस्त्राञ्चलेन खित्वा क्षणमुवाच-दृष्टं सखि, यथेष्टवाचित्वम् । अवापि प्रियंवदा महारेण कारयति रक्षा-