पृष्ठम्:तिलकमञ्जरी.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८८ काव्यमाला। कूटश्च प्रकटनामास्ति । तत्र परिपाट्या भविष्यति भवत्योरभीष्टसङ्गः । विशिष्टधर्मयोगस्तु युगपट्टयोरपि दिव्याभरणलाभेन ।' तदुपये तत्क्षणमेव सा प्रियजुसुन्दरी वबांज विजयार्धनगवरं दक्षिणेन क्षोणिधरमुगुरमयूरकेकमेकशृङ्गम् । अकारयदिव्यशक्त्या शिखरभू- भावस्य तत्कालमेव नानाविधलतावृक्षगुल्ममतनुकल्पतरुखण्डपरिगतेन मण्डिताभ्यन्तरमनुत्तरश्रिया जिनायतनमण्डलेनाश्रयनिमित्तमात्मनो मनोरमाभिधानमतिमहान्तमारामम् । तत्र चाश्रमपदप्रख्ये विधृतमङ्ग- ·लमात्रैकैकरत्नवलया प्रतिपालयन्ती पत्युरागमनमवलोकितदिच्मुखा प्रति- दिनमतिष्ठत् । प्रियंवदापि प्रीतहृदया तद्दिवसमेव प्रस्थिता सत्वरम- गाधलवणाब्धिजलपरिक्षिप्तमानोरनेकसुरपादपच्छन्नटङ्कच्छिन्नकटकस्य शिखरिणो रलकूटस्य प्रतीचितटपरिसरे कारितोत्तुङ्गमणिमयजिनेन्द्र- भवना स्थितिमकल्पयत् । एकदा च प्रियङ्गसुन्दरी तीरतस्तलोपविष्टा विशिष्टवेषाप्तवृन्दार- कवृन्दपरिवृता निकटमेवारामदक्षिणविमागे तत्क्षणोपजातनिर्माणमन- वरतमादिष्टेन वर्षता पीयूषसंवलितमापीयापीय दुग्धाब्धिजलविसरम- म्भोमुचां कलापेन पूर्यमाणोदरमदृष्टपाराख्यमवलोकयन्ती सरस्त्वरा- गमनवल्गचुङ्गकुचयुगाम् , अभिनवद्विपेन्द्रदन्तच्छेदविशदेन दशदिग- न्तव्यापिना मण्डलेनाभ्यन्तरीकृतशरीराम, अलघुमार्गगमनधर्मप्लोषपरि. जिहीर्षया रसातलगीरे सुधासरसीव विहितप्रवेशाम् , प्रतिपलाशमा- सीनमदकलमल्लिकाक्षचक्रवाकस्य महतो विमानाकारपरिणतस्य कनक- कमलिनीखण्डस्य मध्यमरूढमारूढपरिमलमूढमधुकरचक्रवालमिन्दुनील- किंकिणीजालवलयितमिव प्रतिबिम्बमुपरि विधृतधवलातपत्रस्य वित- तपत्रसहसमुद्दण्डनावं पुण्डरीकमध्यासिताम्, आगृहीतविविधाकार-