पृष्ठम्:तिलकमञ्जरी.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६६ काव्यमाला।

रेन्द्रकुलकुमारीभिः परिवृता बहिः प्रतिपालयन्ती त्वदागमनमास्ते देवी । ब्रवीति च-न तावन्मया गन्तव्यं न यावदार्या समागतेति। तच्छ्रुत्वा मलयसुन्दरी 'मृगाङ्कलेखे, न शक्यते किमपि मेऽन्यथा कर्तुम् । अनुवर्तनीया तिलकमञ्जरी' इत्युदीर्य चतुरिकासमेता सलज्जमचलत् । मृगाङ्कलेखा तु कृतमुखस्मिता ममाकृष्य पाणिं पाणिपल्लवाण विष्टरान्मामचलयत् । अगच्छच तिलकमञ्जरीसमीपम् । सा तु प्रीतिविकसितेक्षणा निरीक्ष्य माममुक्तहस्ताप्रया मृगाइलेखया वारंवारमाकृष्यमाणमीपत्कृतस्मिता सयलमानध्य विगलितोश्चयं पुनः पुनः सिचयमासन्नपरिवारलोकोक्षिप्तमूर्तिमलयसुन्दरीद्वितीया द्विरदवघूमारोहत् ।

 निधाय च समासनमात्मपरिजनं मत्समीपे पुरोभूय प्रचलिता चलितयानबाहनेन सर्वतः परिवृता मान्यविद्याधरकन्यकाजनेन खावासमगमत् । अहमप्यसबवेगमारुह्य विमानमस्साः स्थिरनिबदासनः संनिधानासीनया सदृशरूपवेषाभिरामरामाजनसमेतया मुहुर्मुहुः प्रयुक्तैः प्रीतिपेशलैः परिहासवचनैः प्रतिपथं विनोद्यमानो मृगालेखया क्षणेनेच विजयाप्रदक्षिणश्रेणिभूषणं स्थनूपुरचक्रवालसंज्ञ विद्यावर राजराजधानीनगरमासदम् । प्रविष्टमात्रमेव च तत्र मामितस्ततः अहितकौतुकोचानलोचनमचेतनमिवालक्षितस्पर्शमश्रुतालापमन्याहतपतिवचनमालोक्य निर्भरमुदितमानसा मृगाङ्कलेखा कुमारदृष्टं नगरमिति मधुरममाक्षीत् । अहं तु सर्वामिभाविना भन्यतातिशयेन तस्यापहृतहृदयः सखेदमिव निश्वस्य दीर्षमानन्दपर्षरया गिस स्वैरमवदम् - 'इन्दुवदने, खच्छन्दया गत्या मन्दमप्यारक्षिलोकेनोपक्षितः परिणम्य सर्वतो निरखतः प्रत्यापणं प्रतिरथ्यं प्रतिगृहं प्रतिदेवतायतनं