पृष्ठम्:तिलकमञ्जरी.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी।

'हन्त, किमियमसमञ्जसन्यस्तचरणा तरुतलेब्वेकाकिनी भर्तृदारिका परिश्रमति । किं वस्तु विस्मृतं किमपि काम्यं तदन्वेषयति, किमतर्कितखरूपेण तेन द्विरदपतनेन दूरीकृतमात्मीयमेवालीजनं मृगयते,गदि वा निरन्तरतपःक्षपितवपुषामृषीणामपि मुषितधैर्याणि दृश्यन्ते ।अधुना हृदयहारीणि विनमचेष्टितानि यान्यस्या न तानि मदनोन्माद- मपहाय प्रकारान्तरेण संभवति । तदवश्यमखिललोकातिशायिरूपलवण्येन पुण्यपरमाणुनिर्मितोदारवपुषा दिव्यपुरुषेण केनापि दर्शयित्वात्मानमपसृतेन विप्रलब्धेयम्' इति चिन्तयामि यावावदागत्य परिवृता सा परिग्रहामेसरणाभिसरलोकेन । नीता च निश्चितप्रकृतिविपर्यासमीतेनानिच्छुरपि गन्तुमनवरतविहिताभ्यर्थनेन स्वस्थानम् । तत्रापि सर्वदा शयनतलगता मुमुक्षुमतिरिव मन्दमप्यनभिनन्दितदिव्यरसपानभोजना, संनिपातविद्वैद्यवाणीव प्रकृष्टतापेऽप्यनुपदिष्टशिशिरोपचारा, निदाधपरमावस्थेव सहचरीरप्यपश्यन्ती,भीरुपरिषदिव पृष्टाप्यरतिकारणमनावेदयन्ती, चित्रज्ञमपि गतप्रज्ञ इति सावकमवकोकयन्ती, प्रियभाषिणेऽपि रोष मुद्वहन्ती, केवलं

यस्तस्मात्सरस्तीरतटवनादागतो यस्तद्गन्ता यस्तदुत्पन्नां वार्तामकथयबच तद्गमनार्थमुभममकारयत्तमेव परिजनं पार्धं कुर्वती तमेवालपन्ती तस्यैव वचनमयधारयन्ती प्राक्तनमहः स्थिता' इत्युक्ते तया मुक्तसाध्वसा मलयसुन्दरी सधीरमवदत्-'भद्रे, यद्येवमल्पो व्याधिः । न किंचित्कृतेनाकालगमनेन । उत्तिष्ठ । पहिणु चारायणस् । त्वमपि गत्वा सत्वरमिदानीमेव मद्वचसा समाधासय प्रकृतितरला तिलकमञ्जरीम् । ब्रूहि


१. स्तोकमपि. २. झिण्टि शीतकाले पुष्णाति सखी च. ३. "शो तनूकरणे इत्यस्यापि तेन शिण्टीस्तनुकुर्वती सच्चीरवत्त्वेकरम्प च