पृष्ठम्:तिलकमञ्जरी.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ काव्यमाला।

जनितसकलाटवीसत्त्वसंत्रासेन विगतहेतुना वेतपतनेन तरलितो भयविहस्तः सकलोऽपि भर्तृदारिकापार्थवर्ती युवतिलोकः प्रपलाय्य कश्चित्तरुतलेषु कश्चिद्रततिवलयेषु कश्चिद्विरिगुहान्तरालेषु तरसा न्यलीयत ।

 क्षणेन क्षीणायां विभीषिकायामकाण्डविद्धरोड्डमरितेषु दूरमुड्डीय पुनरपि खानि वृक्षखण्डानि संस्(श्रिोतेषु विश्रान्तवासितावेशनिभृतेष्वतीतासु कियतीष्वपि कालकलासु तस्मात्तिमिरगवलालिकजलकूटकालान्नूतनादिव जलदवृन्दात्तडिल्लता विनिर्गत्यैलालतासदनाद्देवी तिलकमजरी तरलरलामरणकिरणप्रमासंभृतेन गात्रप्रभासंभारेण सकलमुद्दयोतयन्ती तं वनोद्देशमवनतमुखी सलजेव नातिनेदीयसस्तमालतरुगुल्मस मूले गतिविलम्बमकृत । स्थित्वा च तस्यान्तरेषु मुहूर्तमुपशान्तसंततश्वासपवनोद्माखेदसलिलाजधनमण्डलासक्तमादरेण निनिडीकृत्य विसि]स्तनीविनिर्वसनं नियम्य चापरेण वैदग्ध्यशंसिना कन्धविन्यासेन सविलासमीपद्वितदोर्मूलपरिणाहाभ्यां बाहुलतिकाम्या ममन्दकुसुमामोदवासितवनानिलं शिथिलतामायातमलिनिकुरुम्बनीलं बोलवल्लरीमारमविचलविधुतलोचना लताजालकान्तरेण प्रतीपमवलोकितवती । कृत्वा च क्षणेन जृम्भारम्भानिष्पतद्वाष्पबिन्दुल्लिनलोचनापाझमझमहं प्रस्थिता । तदेव चकितचकिता लवालयनमुल्लासितस्तनाशुका च वारंवारमवलोकितकुसुमजालकालीकमेव कुर्वती मार्गलतासु ऊसमावचयमायता द्वारमस्य । स्थित्वा चात्र कंचित्कालमुद्विममानसा

सदासनवर्तिषु तस्तम्बेषु सत्वरा अमितुमारब्धा । क्षणेन चारुह्य तुङ्गं सरतीरतटमेकमधिकविस्तारितेक्षणा प्रतिक्षणोदधितमुखी दिङ्मुखाप्रेषितुं प्रवचा । तां च दृष्ट्वा तथाविधामुत्पनाविस्मया मनस्यहमकरवम्


-

१।व्याकुलः २ वस्तम् ३ केशः ४। पश्चात्