पृष्ठम्:तिलकमञ्जरी.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञरी ३२१ पुनरवोचम्—'तारक, स्मरामि सर्वम् । किं तु संदिग्धमेतत् । किं तया भवन्तमुद्दिश्य गदितम् , आहोखित् आयें, संप्रत्येव नृत्यन्त्यास्तवातिरमसेन सारसनमध्यसद्मा समुच्छलित एष पद्मरागः । तगृहाणैनमिति पुनः पुनर्भाषमाणं तमेव पुष्पपटलकन्धरं देवलकदारकम्' इति न शक्यते निणेतुम् । अथ द्दर्शनोपायमपरमप्रेक्षमाणैरर्थसंशये प्रवृत्तिरप्रतिषिद्धति मत्वा गम्यते तत्र, तदपि दुष्करमेकाकिनः ।त्वदध्यासितां नावमेकामधिरुह्य प्रस्थितस्य मे सकल एवं प्रतिपन्थी परिग्रहजनः । सैन्यसहितस्य च परमण्डले गमनमतिबिरुद्धमप्रसाधकं च प्रारब्धे कार्यस्य' इति व्याहरन्तमुपसृत्य वेत्रधारी मामवोचत्-'कुमार, देवस्य चन्द्रकेतोरन्तिकादागतो लेखहारकः प्रतिहारभूमौ तिष्ठति' । 'प्रवेशय' इत्यभिहिता च सा शीघ्रमेव तं प्रावीविशत् ।

 कृतप्रणामं च सादरस्तमद्राक्षम् । अपृच्छंच-'भद्र, कुशली तातः' इति । अथासौ 'यथाज्ञापयसि' इत्यभिधाय भूयः कृतप्रणामः पुरस्ताल्लेखमक्षिपत् ।

 तत्र च 'शत्रुबलपीडितेन द्रविडमण्डलाधिपतिना कुमुमशेखरेण दूतमुखेन कृत्वा सत्यमुपयाचिताः सः । प्रतिज्ञा प्रतिश्रुतं च तस्मै तदस्माभिः । प्रेषितश्च तत्सैन्यसाहायकाय कियानपि रथाश्ववारणप्रायो दण्डः । सैन्यं सत्यक्ताशेषकार्येण कल्याणभागिना स्वसैन्यपरिगतेन

गत्वा सत्वरमधिष्ठातव्यम्' इत्यतिक्रान्तवार्ताप्रकाशनपुरःसरं पितुरादेशमभिलिखितमीक्षितवान् । उच्छसितहृदयश्च तदवधारणेन सिद्धमेव त्वदीयदर्शनं समर्थयमानः प्रहर्षनिर्भरः स्थित्वा मुहूर्तमीपत्कृतस्मितस्वारकमवोचम्—'सखे, तातलेखार्थेन स्थापितास्तावद्वयं त्वदीयवचसि। उत्तिष्ठ । कात्रीगमनसज़ो भव' इत्यभिधाय तत्रैव क्षणे प्रयाणघोषणा-


२१ति. मं०