पृष्ठम्:तिलकमञ्जरी.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ निविश्य सा विहितकुशलप्रश्ना विलम्ब्य स्तोकमुत्सुका मामवादीत्—'भर्तृदारिके, किमनेनैव शुष्ककण्ठाश्लेषेण दर्शितलेहया मया स्थातव्यम् , उतास्य महाराजसूनोस्त्वत्समागमप्रदानपरमोपकारिणः पुण्यैः कथंचिदासादितस्य कर्तव्यः कश्चिदुपचारः' इति । कृतप्रश्नां च तां वारंवारमवनतमुखीम्-'सखि, किमर्थं न करोषि । पूर्वमपि मया शरीरतः प्रभृति यात्किंचिदस्ति तत्समर्पितं समस्तमपि ते । किमन्यदस्मादप्यधिकमिच्छसि' इति साभ्यसूयेव चरणाङ्गुष्ठलतया लिखन्ती क्षोणितलमव्यक्तमवदम् । सा तु निशम्य तज्जातसंमदा 'भर्तृदारिके, यदि तवैष निश्चयखत्किमन्येन । साश्वगजवाहना सरलवर्णकोशा सपरिजना त्वमेवामै मया विश्राणिता' इत्यभिधाय तत्क्षणाबद्धसाध्वसप्रकम्पतरलिताङ्गुलीकम् 'अलीकवत्सले, मुञ्च माम् । इष्टसंयोगोऽयमस्याः परमदाहदायी भविष्यति' इति कृतनिषेधमिव सपहर्षा समाकृप्य मत्करतलम् ,अविरलोद्भिन्नपुलकजालकेन खेदजलसेकादुगताकुरेणेव तत्कालकन्दलितकन्दर्पमदमुकुलितालोलपक्ष्मणि मदीक्षणयुगे निहितनिस्तरङ्गचक्षुषस्तस्य दक्षिणाप्रपाणिना समयोजयत् ।

  कृतकरग्रहणां च मामीपन्नतमुखीमुपवेश्य तस्यासने समुज्झितासना समानीय करयुग्ममग्रतः कृताञ्जलिरवोचत्--'कुमार, वृत्तस्तावदेष संक्षेपेण युवयोरमीक्ष्णमाकाङ्गिणोर्मनोरथसहजैः करप्रमहोत्सवः । संप्रति कृतार्थामुपजाता । समासादितं खाधीनत्वम् , अपसृतश्चिन्ताराशिः, अवगतं सुखस्वरूपम् , आरोपिता मनसि निद्रानन्दसंप्राप्तिः ।किं न तद्यन्न मे संपन्नमभिमतम् । तथापि कृपणार्थिजनचेतोवृत्तिवदजातपरितोषा प्रार्थये किंचित्' इत्युक्तश्च स तया स्तोकमवनताननो ह्रीत तामवादीत्–'बन्धुसुन्दरि, किं प्रयच्छामि । त्वदुपकार-