पृष्ठम्:तिलकमञ्जरी.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। “छलग्राहिणि, रहस्यमेतन्न शक्यते प्रकाशयितुम्' इत्युदीर्य तूष्णीमभवत् । सापि कथमयं महानर्थहेतुरिति विमृश्य बहुशः प्रश्नकाङ्क्षया मन्मुखे चक्षुरक्षिपत् ।

 ततोऽहमुद्भिन्नहासा निभृतमुपसृत्य तां कर्णे विदितवृत्तान्तमकरवम् । सापि मद्वचःश्रवणविस्तारितेक्षणा प्रत्यङ्गमर्पितस्तिमिततारकेण चक्षुषा निरीक्ष्य तुलितकुसुमायुधं तस्य रूपमन्तः परं परितोषमवहत् ।अभापत च निभृताक्षरम्-'भर्तृदारिके, कृतमतीव दुष्करं त्वया,यदस्य प्रथम एव विरहे न मुक्ताः प्राणाः, न गृहीत उन्मादः,न प्रतिपन्नं महाव्रतम् , एवं दुःखमनुभवन्त्या दर्शितः स्नेहः' इत्युदीर्य रचितकरसंपुटा प्रणम्य तमवादीत्—'कुमार, कुटिलस्वभावाः स्त्रियः,निसर्गसरलः पुरुषवर्गः, इति जनप्रवादो न निरवद्य इति चिरादद्य मे स्थितं मनसि । यस्मादपृष्टयापि मया दृष्टमात्रस्य ते जन्मनः प्रभृति सर्वमावेदितं निजरहस्यम् । त्वया तु पृष्टेन विदितपूर्वमेतावदपि मे न प्रकाशितम् । अप्रकटिते तु तस्मिन्कथमहं सोऽयमस्याः प्रिय इति त्वां जानामि । तत्क्षमख मे, यन्मनोरथशताकातिदर्शनस्य खतः प्रीतेन विधिना कथमपि समीपमानीतस्य भुवनत्रयप्रथितपार्थिवप्रथमसूनोः प्रथमदर्शने न दर्शितः प्रतनुरपि संभ्रमः, न प्रपञ्चितो वचनमात्रेणाप्युपचारः, न कृतमद्यपाद्यादिकमीपदपि पूजाविशेषविधानम्' इत्युदीर्य वेगागमनबलात्तुङ्गकुचयुगा भुजयुगं प्रसार्य संजातनिर्भरोत्कण्ठेव कण्ठे तमतिगाढमाश्निक्षत् । उपनीय विष्टरमादरादर्धमुपपादयितुमुद्यताम् 'अतिथिवत्सले, मा कृथाः क्लेशम् । अमुनैव ते सहजसौहार्दशोभिना संभ्रमेण कृत्यकृत्योऽस्मि । कृतमाडम्बरेण' इति ब्रुवाणः स तां न्यवारयत् ।


१. संबोधनम्.