पृष्ठम्:तिलकमञ्जरी.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २८७

जातहर्षः सतर्षं पुनः पुनराश्लिक्षत् । अहं तु प्रकृतिमुग्धापि वे(ते)नानिमिषदर्शितादरेण तस्य क्षितिपसूनोस्तथाविधेन सहसालिङ्गनेन भिन्नहृदया विहस्य चिन्तितवती-'अहो समस्तोऽपि कर्णधारस्यास्य मत्प्रयोजनोऽयमारम्भः । तथा हि-पूर्वमेवास्य मेदिनीपालसूनोः प्रकर्षमागतमुपलभ्यानुरागमप्रयुक्तेनाप्यनेन प्रकृतिदुःप्रवेशे दीयमनसीव देवतागृहेऽत्र प्रवेष्टुमयमिच्छतीति मे कृतं दौत्यम् । ततः 'प्रतिपालय क्षणमात्रम् , अत्र क्षणे बलबदखस्यं मे शरीरम्' इति निषिद्धगमनेनापि विदितो मयायं तव व्याधिः । अहमेवैनमपनेष्यामीत्यभिधाय भर्तुर्बलाप्रचलितेन कृतनिवारणाहमेतदर्थिनीयमिति निश्चिता पश्चाद्वसन्तसेनावचनमवलम्ब्य तूर्णमेव विनिवृत्तेन प्रस्ताकमुपलभ्य नौप्रसादननिमेन प्रवर्तिता बहुलप्रकारम् । तथा हि- नानीतमात्मनः प्रार्थनालाधवम् , प्रकाशिता निजनायकस्य गुणाः, दूषितमन्यपक्षाश्रयणम् , कृतं ममोपलोभनम् , व्यामोहितः पार्श्ववतो जनः, न जनितं कस्यापि वैलक्ष्यम् , अभिहितमनाकुलेन सर्व सविस्तरमात्मप्रयोजनम् , समर्पितो निरपवादः स्वामी । सर्वथा कृतार्थ एव पार्थिवसुतः, यस्यात्यन्तदूरवर्ती प्राकृतजनोऽप्येवंभूतः' इति विचिन्त्य भूयश्चिन्तितवती-'अनेन तावन्महात्मना कृतं स्वामिभक्तेरात्मबुद्धेश्व समुचितम् । मया तु किमिदानीं कर्तव्यम् । यदि तावदस्य वचनमनुवर्तमाना नरपतिकुमारमेनं समाश्रयामि, ततः स्वापत्यदुर्विनयजनितोद्वेगस्य गुरुजनस्य कोपोत्पादनादधर्मः । अथ बिभ्यती तस्मादवधीरयामि , ततोऽस्य जातिमात्रव्यवहितस्य प्रज्ञानिधि(घ)महापुरुषस्य प्रममप्रणयभङ्गऽस्य चात्यन्तमरक्तस्य राजसूनोर्विमानना । यदि पुनरयं मत्प्रणामविफलताजनितवैलक्ष्यः सविधवर्तिनोऽस्यापि नाविकजनस्य