पृष्ठम्:तिलकमञ्जरी.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

लजया जलनिधौ पतति, तन्न पातकमनेकेष्वपि जन्मान्तरेषु याति प्रशमम् । तदलमतिभूयसा विचारेण । स्वीकरोम्येनम् । अविरुद्धो हि राजकन्याजनस्य खयंवरविधिः । कथं पुनरेतावतो जनस्य मध्ये वर्तमानया हासकरमेतत्साहसं कर्तव्यम् । कथं च दुर्गस्वयमनुगन्तव्यः । किं वानुगमनेन । दूरस्थिताप्यनुपलक्षितानेन सहचरीलोकेन ।

केनापि विधिना नयाम्यात्मानमस्य कलत्रभावम् । अप्राप्तसंगमयापि वरमस्य भुवनलाध्यसंबन्धस्य सर्वगुणनिधेगेंहिनीशब्द ऊढः । न मूढमनसान्येन सहितयोपभुक्तमाजन्म भोगसुखम्' इति चिन्तयन्त्यामेव मयि तस्माजिनालयादनुवणोदारवेषधारी दर्शनीयाकारेण रुधिरवाससा वामभुजनिवेशनिश्चलमनुलेपनपूर्णपर्णपुटसनाथमभिनवं पुष्पपटलकं दधानेन देवलकदारकेणानुगम्यमानः तपनवेगनामा राजपुरुषः समेत्य सादरमवादीत्—'मलयसुन्दरि, गृहाणेदमानीतं मया जिनप्रतिमासमालभनावशिष्टमुत्कृष्टपरिमलमखिलजनदृष्टिहारि हरिचन्दनम् ।वन्दस्व तिलकविधिना । बधान चैतानि भगवतः पूजार्थमाहृतानि दिव्यतरुकुसुमदामानि शिरसि' इति गदिते तेन सत्वरः स देवलकदारकः समुत्सारिताकर्पटाच्छादनं पुरो मे पुष्पपटलकमकार्षीत् । अभाषत च हर्षोत्सेकैर्वचोमिः--'आयें, संप्रत्येव नृत्यन्त्यास्त्रवातिरमसेन सारसनमध्यसद्मा समुच्छलित एष पद्मरागः । तद्गृहाणैनम्'इति पुनः पुनर्भाषमाणं तथैवाभिमुखमर्पितेक्षणा तस्य नाविकपतेर्विहस्य सावज्ञेव तमवादिषम् -'भद्र, किमहं न शृणोमि, येन भूयो भूयस्तमेवार्थमावर्तयसि । सर्वमवधारितं ते वचनम् । अङ्गीकृतश्चायं नायकः । किंतु तिष्ठतु तावद्यावदमिहस्था । स्वस्थानमुपगता तुकाश्चीमध्यमागतं ग्रहीष्याम्येनम्' इत्यभिहितो मया स तूष्णीममवत् ।


१. काञ्ची. २.तरलो भर्ता च. ३. रसना पुरी च.