पृष्ठम्:तिलकमञ्जरी.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। १७७ मामिह सितम् । निर्वक्ष्यति वचनवृत्त्या खयं प्रतिपन्नमर्थम् । नेष्यति तदीक्षणगोचपापणेन मत्सतिष्ठति कृतार्थताम् । कथयिष्यत्यतिशयेन मां गुणवन्तम् । सापि शशिमुखी तथेति प्रतिपत्स्यते तद्वचनम् । भविष्यति मदीयदर्शनामिलाषिणी। प्रेषयिष्यति तमात्मानुरागप्रकटनाय मत्पार्श्वम्' इत्यनेकसंकल्पपर्याकुलचेतसः प्रबन्धवर्धमाना रतेरनवरतमु- कायतोष्णनिःश्वासस्य मुहुर्मुहुः पर्यापरिवर्तनस्तरहितोत्तरच्छदपटल प्रभातागमनपर्युत्सुकतया प्रदोषेऽपि नष्टनिद्रस्य निशीथेऽपि देवतार्चनाय परिचारकानुधमयतः शतयामेव कथमपि क्षपा विरामममजत । प्रभातायां च शर्यामुत्थाय निर्वर्तितपाइतनावश्यकविधिः प्रतिपय सविशेषसंपादितशोममभिनवं सर्वाङ्गिणमाकल्पमस्पपदातिवलपरिवृत- स्तदेवोद्यानमगमत् । तत्र चातिबहलपादपच्छाये हंसपदपजिलान्छितस्वच्छसुकुमारसैकते संततापतत्कमलरेणुकषायशीतलमरुति मकरध्वजायतनदीपिकातीरपरि- सरे निषण्णः संनिधानवर्तिमिश्चित्रविद्योपाध्यायैरन्यैश्च जनपरम्परा- जनितकुतूहलैश्चित्रमवलोकयितुमागतैरालेख्यशास्त्रविद्भिर्नगरलोकैः सह विचारयन्नविचार्य चारुत्वतत्त्वं तस्याश्चिनपुटपुत्रिकाया रूपमपसारिता- परविनोदः पूर्वाहमनयत् । उपस्थिते च मध्याह्नसमये यथाविधि विसर्जितायातमान्यलोकः सखेदमुत्थाय चिरनिरोष एव मन्थरैश्चरण- विन्यासरितस्ततो बनाम । गत्वा च सुघटितसोपानसुषमावतारे सरस- वानीरवीरुषि समासन नीरे पुरःसरैरागत्य किंकरैः समन्ततो विस्तारित रुचिरपरिजवनिकावलांशुके शुचिनि सारवे रोधसि पुसेपसा, संनिए- पिताज्यपूजोपकरणः समाहितेनान्तःकरणेन कृत्वा देशवाननुत्थान गया विविकतरमद्देशमनन्तरमेव सत्वरमागर्महानसिकपुरुनैपनीत १२.दि. मं.