पृष्ठम्:तिलकमञ्जरी.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । ञ्चजन्यशङ्खोगीर्णैः, कचिन्मथनाविष्टे बलिहठाकृष्णवासुकीफणापीठ- गलितैर्भिन्नजातिभिर्मोक्तिकैः स्तबकिततलम् , सर्वतः प्रसारितायतज्वा- लाजिस्य सततमावर्जमानैरपि मुखे पयोभिरनुपजाततृप्तेरौर्वदहनस्य दर्शनाज्झटिति निःसृतैरट्टहासच्छेदैरिव कैलासविशदैः फेनराशिमिरा- शामुखानि धवलयन्तम्, अमृतपकैकशरणजीर्णजलकरिकुलातिवाद्यमान- निरवसानकालकूटविषदावेदनमामोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटा- च्छेदमरूढविटपमासन्ननगरायातदैत्यदारिकान्विष्यमाणकौस्तुभसजा- ताय(8) रलोपलशकलमुद जलदेवतादृश्यमानलक्ष्मीचिरोपभुक्तप्रदेश त्रिदशानीतशेषकतिपयाप्सरःसंचारसूचितमथनस्थानमुद्वहन्तम्, गृहीत- वेलैः सद्धृत्यैरिव वनैः परिवृतममृतस्यन्दिभिर्गुरूपदेशैरिव शशाकपादै- राहितोदयं विस्तारितरङ्गैः कुशीलवैरिव नदीपूरैर्नृत्यमानमुल्लसितवेत्रय- ष्टिभिः प्रतीहारैरिव मरुद्भिर्दिक्षु संचार्यमाणं खदेहोद्भवेन दुष्पुत्रेणेव वाडबामिना शोष्यमाणमूमिमालाभिरप्यनासादितपरपारमाशागजैरप्य- सोढगोंदगोरं खेचरैरप्यवीक्षितशिखाविश्रामं सर्वज्ञेनाप्यविज्ञातसर्व- जलचरनामग्राम तिमिङ्गिलगिलैरप्यलचितमीषणावर्त मैनाकगोत्रगिरि- भिरप्यनवगाढकुक्षिगुहागत प्रभवं विषस्य पीयूषस्य च पात्रं जलस्य जातवेदसश्च पदं वृद्धेः क्षयस्य च सदनमसुरारेर्दानवानां च धुर्य मर्यादावतामदृष्टसीनां च कुलमन्दिरं मदिराया द्विजराजस्य च निवात- कवचयुद्धमिव मुक्ताफलवजेन्द्रनीलप्रभासुरदुरालोकं वृत्रमियोप्रकण्ठलम- बनानुविद्धफेनच्छटापहृतहृदयासु खं सुराचलमिव सुवर्णदीप्रकटकान्तं खिरमपि विसारिचारुकल्लोलमपि कूर्मितार्यवपुरिवाखण्डितं सर्पदश- नैर्वसुंधराया मधुरिपोध वास इति विभुतमुद्वहन्तं वारिभगवन्तम- मोनिधिमपश्यम् ।