पृष्ठम्:तिलकमञ्जरी.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला स्कन्धरुविरधारया कपालान्यपूरयन्परेतयुवतयः । निरुद्धचन्द्रालोकब- द्धान्धकारेषु च रुधिरनिमगातीरेषु प्ररूढतालतरुवनशङ्कया निर्विशङ्कमध्यासितोलवेतालमण्डलमध्याभिरमराअनामिररम्यन्त समरासादिता: पतयः । मुहूर्ताच्च प्रीतहृदयः स नरपतिकुमारः सेनाधिपतिमवदत्--- 'वज्रायुध, तवानेन सकललोकविस्मयकारिणा भुजबलेन धनुरिवावर्जितं मम निसर्गस्थमपि हृदयम् । आशैशवादपारपौरुषमदोन्मादपरवशस्य मे शतशः संगरेषु संवृत्तः प्रवेशः । जातश्च सहस्रसंख्यैर्धन्विभिः सह समागमः । नतु जनितमेवंविधं केनाप्यपरेण कौतुकम् । अतिवाहितश्च पुरः करकलितकार्मुकेण काल एतावान् । तदेतर्हि कृत्वा मनः सविशेषसावधानं प्रहर सर्वात्मना । विधेहि च स्वशक्त्या महात्मन् , आत्मनो रक्षामेष(व)मुच्यसे । भुजबलाभिमानस्य भङ्गादलम्बितास- मक्षमसमक्षमस्य सामन्तलोकस्य मर्त्यलोकावाससौख्येनेति व्याहन्येव, वेगाकृष्टचापयष्टिरुदपातजलधर इव जलधारासारमन्धकारिताष्टदिगन्त- रालसूत्रिताकालप्रदोषमनवरतमुत्पतद्भिर्नभसि भीषणैानिनादैररिशि- रोमिश्च व्याहृतविसर्गस्तूयमानमिव, सुभटशस्त्रपातरणितेन प्रणम्य- मानमिव, भूमिनिक्षिप्तमूर्धमिः कबन्धेरच॑मानमिव, निपतदातपत्र- कुसुमैः स्पन्दनैः क्षिप्यमाणलाजमिव, उच्छलकुम्ममुक्ताफलाभिः करिघटाभिरभिषिच्यमानमिव मुक्तासम्वृष्टिभिः प्रहारबणैर्दीयमानचक्रा- भिघातमिव, विलोलमणिकुण्डलैः मापालमुण्डैः प्रबलपरिवारपरिंग- तमिव, शरच्छेदैर्मुकं मांसमेटे मन्दं मेदसि मुखरमस्थिषु मन्धर स्नायुप्रन्थिष्वसंख्यमसृजत् । मार्गेण आतमतिवेगव्याहतोऽस्य तत्र क्षणे प्रोत इव तूणीमुखेषु, लिखित इव मौर्व्याम् , उत्कीर्ण इव पुङ्गेषु, अवतंसित इव श्रवणान्ते तुल्यकालमलक्ष्यत । वामेतरः पाणिरविर-