सामग्री पर जाएँ

पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १९ तस्माद निमित्तया समाख्ययैवाधिकारविशेषसिद्धेर्ने व्यभि चरिदेशनिमित्तत्वमस्याः कल्पयितव्यमित्युक्ते ऽभिधीयते ॥ स्याद्योगाख्या हि मथुरवत् ॥ १६॥ संबन्धैर्घ इभिद्देशसमाख्या हि प्रवर्तते । निवसभवज्ञातत्वतदगमनहेतुभिः। सो ऽस्य निवासस्तत्र भवरतत्र जातस्तत आगत इति एवमा दिनिमित्तपरित्यागेन न कदाचित्प्राच्यादिसमाख्या वर्तते न चैषा देशसंयोगं व्यभिचरति न चैनामचरो ऽनुवर्तते तन्निवा सिनामपि केषां चिदनाचरणच्चिरनिर्णीतपुत्रपुत्रादीनां च देशान्तरेष्वप्याचरणदिति न समाख्यया नियतविधिसिद्भिः। यत्तु मथुरामभिप्रस्थितो मधुर इति भाष्यकारेणोक्तं तत्तङ्ग इति पथिदूतयोरिति वा दूतविषयं कल्पयितव्यमप्रत्ययितोक्त त्वाद्वोपेक्षितव्यम् । सर्वस्मिन्नपि प्रस्थिते तद्विस्मरणभावात्। इदानीं कर्टविशेषविशिष्ट विध्यनुमानप्रतिचतः कर्माङ्गभूनप्र देशादिविध्यनुमानसंभवं मन्यमान अङ । कर्मधम्म व प्रवणवदिति ॥१७॥ प्रागुदकप्रवणे यहरप्रार्चनप्रवणे ऽपि वा। देशो भवति कर्माङ्ग प्राग्देशादिस्तथा भवेदिति ॥ तुल्यं तु कर्तृधर्मेण तच्चिह्नमनवस्थितम्। दिक्ष्णवृत्तिकाप्रायप्रभृतिव्यभिचरतः॥ प्राग्देशो यो दि केषां चित्सो ऽन्येषt दक्षिणापथः । तथोदप्रत्यगित्येवं नैकट्येण गम्यते ।