पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । प्रयुक्तानि प्रतीयेरन्धम्र्मत्वेनेच तान्यपि । अथर्यार्थे वा न तेष्वस्ति शिष्टानामेव धम्र्मधीः । धम्र्मत्वेन प्रपन्नानि शिष्टैर्यानि तु कानि चित्। वैदिकैः कर्वसामान्यात्तेषां धम्र्मत्वमिष्यते ॥ प्रदानानि जपो हीमो मावयज्ञाट्यस्तथा । कन्यकानां च सर्वासां चतुथ्र्याद्युपवासकाः । प्रदीपप्रतिपद्दानमोढकापूपपायसाः । अनग्पिकमाघमप्तमोपैौर्णमासीफाल्गुनीप्रतिपदसन्तोत्सवा दीनां नियमक्रियाप्रमाणं न शास्राटते किं चिदस्ति । स्मृतिका राद्याचारथैव साधूनां दशजातिकुन्नधर्माश्वान्नायैरविरुद्वाः प्र माणमिति वेदाविरुङ्कानामाचाराणां सामान्यतः प्रामाण्यमनु मन्यन्ते । तथानध्यायाधिकार ऊध्र्वे भोजनादुत्सव इति टेशन गरोत्सवप्रामाण्याश्रयणम् । वेदे ऽपि च महात्रते प्रेङ्गमारुच्छ् होता शंसतीत्येतद्वाक्यशेषे श्रयते, यटा वै प्रजा मह श्राविशन्ति प्रेङ्क तारोहन्तोति महःशाब्दवाच्योत्सवप्रसिद्धिरनूदिता। य तु परिमितशाखप्रमेयत्वाद्धम्र्माधम्र्मयोरिच् च तदमम्भवादि युक्तं तद्देदमूलत्वानुमानात् पूर्ववदेव प्रत्याख्येयम् । न च स्मृ तिन्निम्मर्मला विस्तरवचनानामपि प्रपाठकमात्रेणोपसंचाराकि म् । तथाहि ॥ शिष्टैराचार्यमाणानां सतां गोदोहनादिवत्। फलस्वन्धमप्राप्त बोधयच्छाखमर्थवत् ॥